कोटवी कोटितीर्थे तु सुगन्धा माधवे वने गोदाश्रमे त्रिसंध्या तु गङ्गाद्वारे रतिप्रिया
शिवकुण्डे शिवानन्दा नन्दिनी देविकातटे रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने
देवकी मथुरायां तु पाताले परमेश्वरी चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी
सह्याद्राव् एकवीरा तु हरिश्चन्द्रे तु चन्द्रिका रमणा रामतीर्थे तु यमुनायां मृगावती
करवीरे महालक्ष्मीर् उमा देवी विनायके अरोगा वैद्यनाथे तु महाकाले महेश्वरी
अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे
छागलाण्डे प्रचण्डा तु चण्डिका मकरन्दके सोमेश्वरे वरारोहा प्रभासे पुष्करावती
देवमाता सरस्वत्यां पारावारतटे मता महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी
सिंहिका कृतशौचे तु कार्त्तिकेये यशस्करी उत्पलावर्तके लोला सुभद्रा शोणसंगमे
माता सिद्धपुरे लक्ष्मीर् अङ्गना भरताश्रमे जालंधरे विश्वमुखी तारा किष्किन्धपर्वते
देवदारुवने पुष्टिर् मेधा काश्मीरमण्डले भीमा देवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा
कपालमोचने शुद्धिर् माता कायावरोहणे शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा
काला तु चन्द्रभागायाम् अच्छोदे शिवकारिणी वेणायाममृता नाम बदर्यामुर्वशी तथा
ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी
अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये गायत्री वेदवदने पार्वती शिवसंनिधौ
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता
अरुन्धती सतीनां तु रामासु च तिलोत्तमा चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम्
एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम्
यः स्मरेच्छृणुयाद् वापि सर्वपापैः प्रमुच्यते एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मां नरः
सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत् यस्तु मत्परमं कालं करोत्येतेषु मानवः
स भित्त्वा ब्रह्मसदनं पदमभ्येति शांकरम् नाम्नामष्टशतं यस्तु श्रावयेच्छिवसंनिधौ
तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः गोदाने श्राद्धदाने वा अहन्य् अहनि वा बुधः
देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति एवं वदन्ती सा तत्र ददाहात्मानम् आत्मना
स्वायम्भुवो ऽपि कालेन दक्षः प्राचेतसो ऽभवत् पार्वती साभवद्देवी शिवदेहार्धधारिणी
मेनागर्भसमुत्पन्ना भुक्तमुक्तिफलप्रदा अरुन्धती जपन्त्येतत् प्राप योगमनुत्तमम्
पुरूरवाश्च राजर्षिलोके व्यजेयताम् अगात् ययातिः पुत्रलाभं च धनलाभं च भार्गवः
तथान्ये देवदैत्याश्च ब्राह्मणाः क्षत्रियास्तथा वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम्
यत्रैतल्लिखितं तिष्ठेत् पूज्यते देवसंनिधौ न तत्र शोको दौर्गत्यं कदाचिदपि जायते
लोकाः सोमपथा नाम यत्र मारीचनन्दनाः वर्तन्ते देव पितरो देवा यान्भावयन्त्यलम्
अग्निष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताः अच्छोदा नाम तेषां तु मानसी कन्यका नदी