यूयं यत्प्रथमं दैत्याः पश्चाच्च बलपीडिताः प्रविष्टा नगरं त्रासात् प्रमथैर्भृशमर्दिताः
अप्रियं क्रियते व्यक्तं देवैर्नास्त्यत्र संशयः यत्र नाम महाभागाः प्रविशन्ति गिरेर्वनम्
अहो हि कालस्य बलम् अहो कालो हि दुर्जयः यत्रेदृशस्य दुर्गस्य उपरोधो ऽवमागतः
मये विवदमाने तु नर्दमान इवाम्बुदे बभूवुर्निष्प्रभा दैत्या ग्रहा इन्दूदये यथा
वापीपालास्ततो ऽभ्येत्य नभः काल इवाम्बुदाः मयमाहुर्यमप्रख्यं साञ्जलिप्रग्रहाः स्थिताः
या सामृतरसा गूढा वापी वै निर्मिता त्वया समाकुलोत्पलवना समीनाकुलपङ्कजा
पीता सा वृषरूपेण केनचिद्दैत्यनायक वापी सा साम्प्रतं दृष्टा मृतसंज्ञा इवाङ्गना
वापीपालवचः श्रुत्वा मयो ऽसौ दानवप्रभुः कष्टमित्यसकृत्प्रोच्य दितिजानिदमब्रवीत्
मया मायाबलकृता वापी पीता त्वियं यदि विनष्टाः स्म न संदेहस् त्रिपुरं दानवा गतम्
निहतान्निहतान्दैत्यान् आजीवयति दैवतैः पीता वा यदि वा वापी पीता वै पीतवाससा
को ऽन्यो मन्मायया गुप्तां वापीम् अमृततोयिनीम् पास्यते विष्णुमजितं वर्जयित्वा गदाधरम्
सुगुह्यम् अपि दैत्यानां नास्त्यस्याविदितं भुवि यत्र मद्वरकौशल्यं विज्ञातं न वृतं बुधैः
समो ऽयं रुचिरो देशो निर्द्रुमो निर्द्रुमाचलः नवाम्भःपूरितं कृत्वा बाधन्ते ऽस्मान्मरुद्गणाः
ते यूयं यदि मन्यध्वं सागरोपरिधिष्ठिताः प्रमथानां महावेगं सहामः श्वसनोपमम्
एतेषां च समारम्भास् तस्मिन्सागरसम्प्लवे निरुत्साहा भविष्यन्ति एतद्रथपथावृताः
युध्यतां निघ्नतां शत्रून् भीतानां च द्रविष्यताम् सागरो ऽम्बरसंकाशः शरणं नो भविष्यति
इत्युक्त्वा स मयो दैत्यो दैत्यानामधिपस्तदा त्रिपुरेण ययौ तूर्णं सागरं सिन्धुबान्धवम्
सागरे जलगम्भीर उत्पपात पुरं वरम् अवतस्थुः पुराण्येव गोपुराभरणानि च
अपक्रान्ते तु त्रिपुरे त्रिपुरारिस्त्रिलोचनः पितामहमुवाचेदं वेदवादविशारदम्
पितामह दृढं भीता भगवन्दानवा हि नः विपुलं सागरं ते तु दानवाः समुपाश्रिताः
यत एव हि ते यातास् त्रिपुरेण तु दानवाः तत एव रथं तूर्णं प्रापयस्व पितामह
सिंहनादं ततः कृत्वा देवा देवरथं च तम् परिवार्य ययुर्हृष्टाः सायुधाः पश्चिमोदधिम्
ततो ऽमरामरगुरुं परिवार्य भवं हरम् नर्दयन्तो ययुस्तूर्णं सागरं दानवालयम्
अमरवरपुरे ऽपि दारुणो जलधररावमृदङ्गगह्वरः दनुतनयनिनादमिश्रितः प्रतिनिधिसंक्षुभिताणवोपमः
अथ भुवनपतिर्गतिः सुराणाम् अरिमृगयाम् अददात्सुलब्धबुद्धिः त्रिदशगणपतिर्ह्युवाच शक्रं त्रिपुरगतं सहसा निरीक्ष्य शत्रुम्
त्रिदशगणपते निशामयैतत् त्रिपुरनिकेतनं दानवाः प्रविष्टाः यमवरुणकुबेरषण्मुखैस्तत् सह गणपैरपि हन्मि तावदेव
विहितपरबलाभिघातभूतं व्रज जलधेस्तु यतः पुराणि तस्थुः स रथवरगतो भवः समर्थो ह्य् उदधिमगात्त्रिपुरं पुनर्निहन्तुम्
इति परिगणयन्तो दितेः सुता ह्य् अवतस्थुर्लवणार्णवोपरिष्टात् अभिभवत्रिपुरं सदानवेन्द्रं शरवर्षैर्मुसलैश्च वज्रमिश्रैः
अहमपि रथवर्यमास्थितः सुरवरवर्य भवेय पृष्ठतः असुरवरवधार्थमुद्यतानां प्रतिविदधामि सुखाय ते ऽनघ
इति भववचनप्रचोदिते दशशतनयनवपुः समुद्यतः त्रिपुरपुरजिघांसया हरिः प्रविकसिताम्बुजलोचनो ययौ