सजलजलदराजितां समस्तां कुमुदवरोत्पलफुल्लपङ्कजाढ्याम् सुरगुरुरपिबत्पयो ऽमृतं तद् रविरिव संचितशार्वरं तमो ऽन्धम्
वापीं पीत्वासुरेन्द्राणां पीतवासा जनार्दनः नर्दमानो महाबाहुः प्रविवेश शरं ततः
ततो ऽसुरा भीमगणेश्वरैर्हताः प्रहारसंवर्धितशोणितापगाः पराङ्मुखा भीममुखैः कृता रणे यथा नयाभ्युद्यततत्परैर्नरैः
स तारकाख्यस् तडिन्मालिरेव च मयेन सार्धं प्रमथैरभिद्रुताः पुरं परावृत्य नु ते शरार्दिता यथा शरीरं पवनोदये गताः
गणेश्वराभ्युद्यतदर्पकाशिनो महेन्द्रनन्दीश्वरषण्मुखा युधि विनेदुरुच्चैर्जहसुश्च दुर्मदा जयेम चन्द्रादिदिगीश्वरैः सह
प्रमथैः समरे भिन्नास् त्रैपुरास्ते सुरारयः पुरं प्रविविशुर्भीताः प्रमथैर्भग्नगोपुरम्
शीर्णदंष्ट्रा यथा नागा भग्नशृङ्गा यथा वृषाः यथा विपक्षाः शकुना नद्यः क्षीणोदका यथा
मृतप्रायास्तथा दैत्या दैवतैर्विकृताननाः बभूवुस्ते विमनसः कथं कार्यमिति ब्रुवन्
अथ तान्म्लानमनसस् तदा तामरसाननः उवाच दैत्यो दैत्यानां परमाधिपतिर्मयः
कृत्वा युद्धानि घोराणि प्रमथैः सह सामरैः तोषयित्वा तथा युद्धे प्रमथानमरैः सह
यूयं यत्प्रथमं दैत्याः पश्चाच्च बलपीडिताः प्रविष्टा नगरं त्रासात् प्रमथैर्भृशमर्दिताः
अप्रियं क्रियते व्यक्तं देवैर्नास्त्यत्र संशयः यत्र नाम महाभागाः प्रविशन्ति गिरेर्वनम्
अहो हि कालस्य बलम् अहो कालो हि दुर्जयः यत्रेदृशस्य दुर्गस्य उपरोधो ऽवमागतः
मये विवदमाने तु नर्दमान इवाम्बुदे बभूवुर्निष्प्रभा दैत्या ग्रहा इन्दूदये यथा
वापीपालास्ततो ऽभ्येत्य नभः काल इवाम्बुदाः मयमाहुर्यमप्रख्यं साञ्जलिप्रग्रहाः स्थिताः
या सामृतरसा गूढा वापी वै निर्मिता त्वया समाकुलोत्पलवना समीनाकुलपङ्कजा
पीता सा वृषरूपेण केनचिद्दैत्यनायक वापी सा साम्प्रतं दृष्टा मृतसंज्ञा इवाङ्गना
वापीपालवचः श्रुत्वा मयो ऽसौ दानवप्रभुः कष्टमित्यसकृत्प्रोच्य दितिजानिदमब्रवीत्
मया मायाबलकृता वापी पीता त्वियं यदि विनष्टाः स्म न संदेहस् त्रिपुरं दानवा गतम्
निहतान्निहतान्दैत्यान् आजीवयति दैवतैः पीता वा यदि वा वापी पीता वै पीतवाससा
को ऽन्यो मन्मायया गुप्तां वापीम् अमृततोयिनीम् पास्यते विष्णुमजितं वर्जयित्वा गदाधरम्
सुगुह्यम् अपि दैत्यानां नास्त्यस्याविदितं भुवि यत्र मद्वरकौशल्यं विज्ञातं न वृतं बुधैः
समो ऽयं रुचिरो देशो निर्द्रुमो निर्द्रुमाचलः नवाम्भःपूरितं कृत्वा बाधन्ते ऽस्मान्मरुद्गणाः
ते यूयं यदि मन्यध्वं सागरोपरिधिष्ठिताः प्रमथानां महावेगं सहामः श्वसनोपमम्
एतेषां च समारम्भास् तस्मिन्सागरसम्प्लवे निरुत्साहा भविष्यन्ति एतद्रथपथावृताः
युध्यतां निघ्नतां शत्रून् भीतानां च द्रविष्यताम् सागरो ऽम्बरसंकाशः शरणं नो भविष्यति
इत्युक्त्वा स मयो दैत्यो दैत्यानामधिपस्तदा त्रिपुरेण ययौ तूर्णं सागरं सिन्धुबान्धवम्
सागरे जलगम्भीर उत्पपात पुरं वरम् अवतस्थुः पुराण्येव गोपुराभरणानि च
अपक्रान्ते तु त्रिपुरे त्रिपुरारिस्त्रिलोचनः पितामहमुवाचेदं वेदवादविशारदम्
पितामह दृढं भीता भगवन्दानवा हि नः विपुलं सागरं ते तु दानवाः समुपाश्रिताः