नन्दीश्वरेण प्रमथास् तारकाख्येन दानवाः चक्रुः संहत्य संग्रामं चोद्यमाना बलेन च
ते ऽसिभिश्चन्द्रसंकाशैः शूलैश्चानलपिङ्गलैः बाणैश्च दृढनिर्मुक्तैर् अभिजघ्नुः परस्परम्
शराणां सृज्यमानानाम् असीनां च निपात्यताम् रूपाण्यासन्महोल्कानां पतन्तीनामिवाम्बरात्
शक्तिभिर्भिन्नहृदया निर्दया इव पातिताः निरयेष्विव निर्मग्नाः कूजन्ते प्रमथासुराः
हेमकुण्डलयुक्तानि किरीटोत्कटवन्ति च शिरांस्युर्व्यां पतन्ति स्म गिरिकूटा इवात्यये
परश्वधैः पट्टिशैश्च खड्गैश्च परिघैस्तथा छिन्नाः करिवराकारा निपेतुस्ते धरातले
गर्जन्ति सहसा हृष्टाः प्रमथा भीमगर्जनाः साधयन्त्यपरे सिद्धा युद्धगान्धर्वमद्भुतम्
बलवान्भासि प्रमथ दर्पितो भासि दानव इति चोच्चारयन्वाचं वारणा रणधूर्गताः
परिघैराहताः केचिद् दानवैः शंकरानुगाः वमन्ते रुधिरं वक्त्रैः स्वर्णधातुमिवाचलाः
प्रमथैरपि नाराचैर् असुराः सुरशत्रवः द्रुमैश्च गिरिशृङ्गैश्च गाढमेवाहवे हताः
सूदितानथ तान्दैत्यान् अन्ये दानवपुंगवाः उत्क्षिप्य चिक्षिपुर् वाप्यां मयदानवचोदिताः
ते चापि भास्वरैर्देहैः स्वर्गलोक इवामराः उत्तस्थुर्वापीमासाद्य सद्रूपाभरणाम्बराः
अथैके दानवाः प्राप्य वापीप्रक्षेपणाद् असून् आस्फोट्य सिंहनादं च कृत्वाधावंस्तथासुराः
दानवाः प्रमथानेतान् प्रसर्पत किम् आसथ हतानपि हि वो वापी पुनरुज्जीवयिष्यति
एवं श्रुत्वा शङ्कुकर्णो वचो ऽग्रग्रहसंनिभः द्रुतमेवैत्य देवेशम् इदं वचनमब्रवीत्
सूदिताः सूदिता देव प्रमथैरसुरा ह्यमी उत्तिष्ठन्ति पुनर्भीमाः सस्या इव जलोक्षिताः
अस्मिन्किल पुरे वापी पूर्णामृतरसाम्भसा निहता निहता यत्र क्षिप्ता जीवन्ति दानवाः
इति विज्ञापयद्देवं शङ्कुकर्णो महेश्वरम् अभवन्दानवबल उत्पाता वै सुदारुणाः
तारकाख्यः सुभीमाक्षो दारितास्यो हरिर्यथा अभ्यधावत्सुसंक्रुद्धो महादेवरथं प्रति
त्रिपुरे तु महान्घोरो भेरीशङ्खरवो बभौ दानवा निःसृता दृष्ट्वा देवदेवरथे सुरम्
भूकम्पश्चाभवत्तत्र शताङ्गो भूगतो ऽभवत् दृष्ट्वा क्षोभमगाद्रुद्रः स्वयम्भूश्च पितामहः
ताभ्यां देववरिष्ठाभ्याम् अन्वितः स रथोत्तमः अनायतनम् आसाद्य सीदते गुणवानिव
धातुक्षये देह इव ग्रीष्मे चाल्पमिवोदकम् शैथिल्यं याति स रथः स्नेहो विप्रकृतो यथा
रथादुत्पत्यात्मभूर् वै सीदन्तं तु रथोत्तमम् उज्जहार महाप्राणो रथं त्रैलोक्यरूपिणम्
तदा शराद्विनिष्पत्य पीतवासा जनार्दनः वृषरूपं महत्कृत्वा रथं जग्राह दुर्धरम्
स विषाणाभ्यां त्रैलोक्यं रथमेव महारथः प्रगृह्योद्वहते सज्जं कुलं कुलवहो यथा
तारकाख्यो ऽपि दैत्येन्द्रो गिरीन्द्र इव पक्षवान् अभ्यद्रवत्तदा देवं ब्रह्माणं हतवांश्च सः
स तारकाख्याभिहतः प्रतोदं न्यस्य कूबरे विजज्वाल मुहुर्ब्रह्मा श्वासं वक्त्रात् समुद्गिरन्
तत्र दैत्यैर्महानादो दानवैरपि भैरवः तारकाख्यस्य पूजार्थं कृतो जलधरोपमः
रथचरणकरो ऽथ महामृधे वृषभवपुर्वृषभेन्द्रपूजितः दितितनयबलं विमर्द्य सर्वं त्रिपुरपुरं प्रविवेश केशवः