उत्पलैः कुमुदैः पद्मैर् वृतां कादम्बकैस्तथा चन्द्रभास्करवर्णाभैर् भीमैर् आवरणैर्वृताम्
खगैर् मधुररावैश्च चारुचामीकरप्रभैः कामैषिभिर् इवाकीर्णां जीवानामरणीम् इव
तां वापीं सृज्य स मयो गङ्गामिव महेश्वरः तस्यां प्रक्षालयामास विद्युन्मालिनमादितः
स वाप्यां मज्जितो दैत्यो देवशत्रुर्महाबलः उत्तस्थाविन्धनैरिद्धः सद्यो हुत इवानलः
मयस्य चाञ्जलिं कृत्वा तारकाख्यो ऽभिवादितः विद्युन्मालीति वचनं मयमुत्थाय चाब्रवीत्
क्व नन्दी सह रुद्रेण वृतः प्रमथजम्बुकैः युध्यामो ऽरीन् विनिष्पीड्य दया देहेषु का हि नः
अन्वास्यैव च रुद्रस्य भवामः प्रभविष्णवः तैर्वा विनिहता युद्धे भविष्यामो यमाशनाः
विद्युन्मालेर् निशम्यैतन् मयो वचनमूर्जितम् तं परिष्वज्य सार्द्राक्ष इदमाह महासुरः
विद्युन्मालिन्न मे राज्यम् अभिप्रेतं न जीवितम् त्वया विना महाबाहो किमन्येन महासुर
महामृतमयी वापी ह्य् एषा मायाभिरीश्वर सृष्टा दानवदैत्यानां हतानां जीववर्धिनी
दिष्ट्या त्वां दैत्य पश्यामि यमलोकाद् इहागतम् दुर्गतावनयग्रस्तं भोक्ष्यामो ऽद्य महानिधिम्
दृष्ट्वा दृष्ट्वा च तां वापीं मायया मयनिर्मिताम् हृष्टाननाक्षा दैत्येन्द्रा इदं वचनमब्रुवन्
दानवा युध्यतेदानीं प्रमथैः सह निर्भयाः मयेन निर्मिता वापी हतान्संजीवयिष्यति
ततः क्षुब्धाम्बुधिनिभा भेरी सा तु भयंकरी वाद्यमाना ननादोच्चै रौरवी सा पुनः पुनः
श्रुत्वा भेरीरवं घोरं मेघारम्भितसंनिभम् न्यपतन्नसुरास्तूर्णं त्रिपुराद्युद्धलालसाः
लोहराजतसौवर्णैः कटकैर्मणिराजितैः आमुक्तैः कुण्डलैर्हारैर् मुकुटैरपि चोत्कटैः
धूमायिता ह्यविरमा ज्वलन्त इव पावकाः आयुधानि समादाय काशिनो दृढविक्रमाः
नृत्यमाना इव नटा गर्जन्त इव तोयदाः करोच्छ्रया इव गजाः सिंहा इव च निर्भयाः
ह्रदा इव च गम्भीराः सूर्या इव प्रतापिताः द्रुमा इव च दैत्येन्द्रास् त्रासयन्तो बलं महत्
प्रमथा अपि सोत्साहा गरुडोत्पातपातिनः युयुत्सवो ऽभिधावन्ति दानवान्दानवारयः
नन्दीश्वरेण प्रमथास् तारकाख्येन दानवाः चक्रुः संहत्य संग्रामं चोद्यमाना बलेन च
ते ऽसिभिश्चन्द्रसंकाशैः शूलैश्चानलपिङ्गलैः बाणैश्च दृढनिर्मुक्तैर् अभिजघ्नुः परस्परम्
शराणां सृज्यमानानाम् असीनां च निपात्यताम् रूपाण्यासन्महोल्कानां पतन्तीनामिवाम्बरात्
शक्तिभिर्भिन्नहृदया निर्दया इव पातिताः निरयेष्विव निर्मग्नाः कूजन्ते प्रमथासुराः
हेमकुण्डलयुक्तानि किरीटोत्कटवन्ति च शिरांस्युर्व्यां पतन्ति स्म गिरिकूटा इवात्यये
परश्वधैः पट्टिशैश्च खड्गैश्च परिघैस्तथा छिन्नाः करिवराकारा निपेतुस्ते धरातले
गर्जन्ति सहसा हृष्टाः प्रमथा भीमगर्जनाः साधयन्त्यपरे सिद्धा युद्धगान्धर्वमद्भुतम्
बलवान्भासि प्रमथ दर्पितो भासि दानव इति चोच्चारयन्वाचं वारणा रणधूर्गताः
परिघैराहताः केचिद् दानवैः शंकरानुगाः वमन्ते रुधिरं वक्त्रैः स्वर्णधातुमिवाचलाः
प्रमथैरपि नाराचैर् असुराः सुरशत्रवः द्रुमैश्च गिरिशृङ्गैश्च गाढमेवाहवे हताः