दुर्गं वै त्रिपुरस्यास्य न समं विद्यते पुरम् तस्याप्येषो ऽनयः प्राप्तो न दुर्गं कारणं क्वचित्
कालस्यैव वशे सर्वं दुर्गं दुर्गतरं च यत् काले क्रुद्धे कथं कालात् त्राणं नो ऽद्य भविष्यति
एकेषु त्रिषु यत्किंचिद् बलं वै सर्वजन्तुषु कालस्य तद्वशं सर्वम् इति पैतामहो विधिः
अस्मिन्कः प्रभवेद्योगो ह्य् असंधार्ये ऽमितात्मनि लङ्घने कः समर्थः स्याद् ऋते देवं महेश्वरम्
बिभेमि नेन्द्राद्धि यमाद् वरुणान्न च वित्तपात् स्वामी चैषां तु देवानां दुर्जयः स महेश्वरः
ऐश्वर्यस्य फलं यत्तत् प्रभुत्वस्य च यत्फलम् तदद्य दर्शयिष्यामि यावद्वीराः समन्ततः
वापीममृततोयेन पूर्णां स्रक्ष्ये वरौषधीः जीविष्यन्ति तदा दैत्याः संजीवनवरौषधैः
इति संचिन्त्य बलवान् मयो मायाविनां वरः मायया ससृजे वापीं रम्भामिव पितामहः
द्वियोजनायतां दीर्घां पूर्णयोजनविस्तृताम् आरोहसंक्रमवतीं चित्ररूपां कथामिव
इन्दोः किरणकल्पेन मृष्टेनामृतगन्धिना पूर्णां परमतोयेन गुणपूर्णामिवाङ्गनाम्
उत्पलैः कुमुदैः पद्मैर् वृतां कादम्बकैस्तथा चन्द्रभास्करवर्णाभैर् भीमैर् आवरणैर्वृताम्
खगैर् मधुररावैश्च चारुचामीकरप्रभैः कामैषिभिर् इवाकीर्णां जीवानामरणीम् इव
तां वापीं सृज्य स मयो गङ्गामिव महेश्वरः तस्यां प्रक्षालयामास विद्युन्मालिनमादितः
स वाप्यां मज्जितो दैत्यो देवशत्रुर्महाबलः उत्तस्थाविन्धनैरिद्धः सद्यो हुत इवानलः
मयस्य चाञ्जलिं कृत्वा तारकाख्यो ऽभिवादितः विद्युन्मालीति वचनं मयमुत्थाय चाब्रवीत्
क्व नन्दी सह रुद्रेण वृतः प्रमथजम्बुकैः युध्यामो ऽरीन् विनिष्पीड्य दया देहेषु का हि नः
अन्वास्यैव च रुद्रस्य भवामः प्रभविष्णवः तैर्वा विनिहता युद्धे भविष्यामो यमाशनाः
विद्युन्मालेर् निशम्यैतन् मयो वचनमूर्जितम् तं परिष्वज्य सार्द्राक्ष इदमाह महासुरः
विद्युन्मालिन्न मे राज्यम् अभिप्रेतं न जीवितम् त्वया विना महाबाहो किमन्येन महासुर
महामृतमयी वापी ह्य् एषा मायाभिरीश्वर सृष्टा दानवदैत्यानां हतानां जीववर्धिनी
दिष्ट्या त्वां दैत्य पश्यामि यमलोकाद् इहागतम् दुर्गतावनयग्रस्तं भोक्ष्यामो ऽद्य महानिधिम्
दृष्ट्वा दृष्ट्वा च तां वापीं मायया मयनिर्मिताम् हृष्टाननाक्षा दैत्येन्द्रा इदं वचनमब्रुवन्
दानवा युध्यतेदानीं प्रमथैः सह निर्भयाः मयेन निर्मिता वापी हतान्संजीवयिष्यति
ततः क्षुब्धाम्बुधिनिभा भेरी सा तु भयंकरी वाद्यमाना ननादोच्चै रौरवी सा पुनः पुनः
श्रुत्वा भेरीरवं घोरं मेघारम्भितसंनिभम् न्यपतन्नसुरास्तूर्णं त्रिपुराद्युद्धलालसाः
लोहराजतसौवर्णैः कटकैर्मणिराजितैः आमुक्तैः कुण्डलैर्हारैर् मुकुटैरपि चोत्कटैः
धूमायिता ह्यविरमा ज्वलन्त इव पावकाः आयुधानि समादाय काशिनो दृढविक्रमाः
नृत्यमाना इव नटा गर्जन्त इव तोयदाः करोच्छ्रया इव गजाः सिंहा इव च निर्भयाः
ह्रदा इव च गम्भीराः सूर्या इव प्रतापिताः द्रुमा इव च दैत्येन्द्रास् त्रासयन्तो बलं महत्
प्रमथा अपि सोत्साहा गरुडोत्पातपातिनः युयुत्सवो ऽभिधावन्ति दानवान्दानवारयः