स वज्रनिहतो दैत्यो वज्रसंहननोपमः पपात वज्राभिहतः शक्रेणाद्रिरिवाहतः
दैत्येश्वरं विनिहतं नन्दिना कुलनन्दिना चुक्रुशुर्दानवाः प्रेक्ष्य दुद्रुवुश्च गणाधिपाः
दुःखामर्षितरोषास्ते विद्युन्मालिनि पातिते द्रुमशैलमहावृष्टिं पयोदाः ससृजुर्यथा
ते पीड्यमाना गुरुभिर् गिरिभिश्च गणेश्वराः कर्तव्यं न विदुः किंचिद् वन्द्यमाधार्मिका इव
ततो ऽसुरवरः श्रीमांस् तारकाख्यः प्रतापवान् सतरूणां गिरीणां वै तुल्यरूपधरो बभौ
भिन्नोत्तमाङ्गा गणपा भिन्नपादाङ्किताननाः विरेजुर्भुजगा मन्त्रैर् वार्यमाणा यथा तथा
मयेन मायावीर्येण वध्यमाना गणेश्वराः भ्रमन्ति बहुशब्दालाः पञ्जरे शकुना इव
तयासुरवरः श्रीमांस् तारकाख्यः प्रतापवान् ददाह च बलं सर्वं शुष्केन्धनमिवानलः
तारकाख्येन वार्यन्ते शरवर्षैस्तदा गणाः मयेन मायानिहतास् तारकाख्येन चेषुभिः गणेशा विधुरा जाता जीर्णमूला यथा द्रुमाः
भूयः संपतते चाग्निर् ग्रहान्ग्राहान्भुजंगमान् गिरीन्द्रांश्च हरीन्व्याघ्रान् वृक्षान् सृमरवर्णकान्
शरभानष्टपादांश्च अपः पवनमेव च मयो मायाबलेनैव पातयत्येव शत्रुषु
ते तारकाख्येन मयेन मायया संमुह्यमाना विवशा गणेश्वराः नाशक्नुवंस्ते मनसापि चेष्टितुं यथेन्द्रियार्था मुनिनाभिसंयताः
महाजलाग्न्यादिसकुञ्जरोरगैर् हरीन्द्रव्याघ्रर्क्षतरक्षुराक्षसैः विबाध्यमानास्तमसा विमोहिताः समुद्रमध्येष्विव गाधकाङ्क्षिणः
संमर्द्यमानेषु गणेश्वरेषु संनर्दमानेषु सुरेतरेषु ततः सुराणां प्रवराभिरक्षितुं रिपोर्बलं संविविशुः सहायुधाः
यमो गदास्त्रो वरुणश्च भास्करस् तथा कुमारो ऽमरकोटिसंयुतः स्वयं च शक्रः सितनागवाहनः कुलीशपाणिः सुरलोकपुंगवः
स चोडुनाथः ससुतो दिवाकरः स सान्तकस्त्र्यक्षपतिर् महाद्युतिः एते रिपूणां प्रबलाभिरक्षितं तदा बलं संविविशुर्मदोद्धताः
यथा वनं दर्पितकुञ्जराधिपा यथा नभः साम्बुधरं दिवाकरः यथा च सिंहैर्विजनेषु गोकुलं तथा बलं तत्त्रिदशैर् अभिद्रुतम्
कृतप्रहारातुरदीनदानवं ततस्त्वभज्यन्त बलं हि पार्षदाः स्वर्ज्योतिषां ज्योतिर् इवोष्मवान् हरिर् यथा तमो घोरतरं नराणाम्
विशान्तयामास यथा सदैव निशाकरः संचितशार्वरं तमः ततो ऽपकृष्टे च तमःप्रभावे अस्त्रप्रभावे च विवर्धमाने
दिग्लोकपालैर् गणनायकैश्च कृतो महान्सिंहरवो मुहूर्तम् संख्ये विभग्ना विकरा विपादाश् छिन्नोत्तमाङ्गाः शरपूरिताङ्गाः
देवेतरा देववरैर्विभिन्नाः सीदन्ति पङ्केषु यथा गजेन्द्राः वज्रेण भीमेन च वज्रपाणिः शक्त्या च शक्त्या च मयूरकेतुः
दण्डेन चोग्रेण च धर्मराजः पाशेन चोग्रेण च वारिगोप्ता शूलेन कालेन च यक्षराजो वीर्येण तेजस्वितया सुकेशः
गणेश्वरास्ते सुरसंनिकाशाः पूर्णाहुतीसिक्तशिखिप्रकाशाः उत्सादयन्ते दनुपुत्रवृन्दान् यथैव इन्द्राशनयः पतन्त्यः
मयस्तु देवान्परिरक्षितारम् उमात्मजं देववरं कुमारम् शरेण भित्त्वा स हि तारकासुतं स तारकाख्यासुरम् आबभाषे
कृत्वा प्रहारं प्रविशामि वीरं पुरं हि दैत्येन्द्रबलेन युक्तः विश्राममूर्जस्करमप्यवाप्य पुनः करिष्यामि रणं प्रपन्नैः
वयं हि शस्त्रक्षतविक्षताङ्गा विशीर्णशस्त्रध्वजवर्मवाहाः जयैषिणस्ते जयकाशिनश्च गणेश्वरा लोकवराधिपाश्च
मयस्य श्रुत्वा दिवि तारकाख्यो वचो ऽभिकाङ्क्षन्क्षतजोपमाक्षः विवेश तूर्णं त्रिपुरं दितेः सुतैः सुतैरदित्या युधि वृद्धहर्षैः
मयः प्रहारं कृत्वा तु मायावी दानवर्षभः विवेश तूर्णं त्रिपुरम् अभ्रं नीलमिवाम्बरम्
स दीर्घमुष्णं निःश्वस्य दानवान्वीक्ष्य मध्यगान् दध्यौ लोकक्षये प्राप्ते कालं काल इवापरः
इन्द्रो ऽपि बिभ्यते यस्य स्थितो युद्धेप्सुरग्रतः स चापि निधनं प्राप्तो विद्युन्माली महायशाः