इषुभिस्ताड्यमानास्ते भूयो भूयो गणेश्वराः चक्रुस्ते देहनिर्यासं स्वर्णधातुमिवाचलाः
तथा वृक्षशिलावज्रशूलपट्टिपरश्वधैः चूर्ण्यन्ते ऽभिहता दैत्याः काचाष्टङ्कहता इव
चन्द्रोदयात्समुद्भूतः पौर्णमास इवार्णवः त्रिपुरं प्रभवत् तद्वद् भीमरूपमहासुरैः
तारकाख्यो जयत्येष इति दैत्या अघोषयन् जयतीन्द्रश्च रुद्रश्च इत्येव च गणेश्वराः
वारिता दारिता बाणैर् योधास्तस्मिन्बलार्णवे निःस्वनन्तो ऽम्बुसमये जलगर्भा इवाम्बुदाः
करैश्छिन्नैः शिरोभिश्च ध्वजैश्छत्त्रैश्च पाण्डुरैः युद्धभूमिर्भयवती मांसशोणितपूरिता
व्योम्नि चोत्प्लुत्य सहसा तालमात्रं वरायुधैः दृढाहताः पतन् पूर्वं दानवाः प्रमथास्तथा
सिद्धाश्चाप्सरसश्चैव चारणाश्च नभोगताः दृढप्रहारहृषिताः साधु साध्विति चुक्रुशुः
अनाहताश्च वियति देवदुन्दुभयस्तथा नदन्तो मेघशब्देन शरभा इव रोषिताः
ते तस्मिंस्त्रिपुरे दैत्या नद्यः सिन्धुपताविव विशन्ति क्रुद्धवदना वल्मीकमिव पन्नगाः
तारकाख्यपुरे तस्मिन् सुराः शूराः समन्ततः सशस्त्रा निपतन्ति स्म सपक्षा इव भूधराः
योधयन्ति त्रिभागेण त्रिपुरे तु गणेश्वराः विद्युन्माली मयश्चैव मग्नौ च द्रुमवद्रणे
विद्युन्माली स दैत्येन्द्रो गिरीन्द्रसदृशद्युतिः आदाय परिघं घोरं ताडयामास नन्दिनम्
स नन्दी दानवेन्द्रेण परिघेण दृढाहतः भ्रमते मधुना व्यक्तः पुरा नारायणो यथा
नन्दीश्वरे गते तत्र गणपाः ख्यातविक्रमाः दुद्रुवुर्जातसंरम्भा विद्युन्मालिनमासुरम्
घण्टाकर्णः शङ्कुकर्णो महाकालश्च पार्षदाः ततश्च सायकैः सर्वान् गणपान्गणपाकृतीन्
भूयो भूयः स विव्याध गणेश्वरमहत्तमान् भित्त्वा भित्त्वा रुरावोच्चैर् नभस्यम्बुधरो यथा
तस्यारम्भितशब्देन नन्दी दिनकरप्रभः संज्ञां प्राप्य ततः सो ऽपि विद्युन्मालिनमाद्रवत्
रुद्रदत्तं तदा दीप्तं दीप्तानलसमप्रभम् वज्रं वज्रनिभाङ्गस्य दानवस्य ससर्ज ह
तं नन्दिभुजनिर्मुक्तं मुक्ताफलविभूषितम् पपात वक्षसि तदा वज्रं दैत्यस्य भीषणम्
स वज्रनिहतो दैत्यो वज्रसंहननोपमः पपात वज्राभिहतः शक्रेणाद्रिरिवाहतः
दैत्येश्वरं विनिहतं नन्दिना कुलनन्दिना चुक्रुशुर्दानवाः प्रेक्ष्य दुद्रुवुश्च गणाधिपाः
दुःखामर्षितरोषास्ते विद्युन्मालिनि पातिते द्रुमशैलमहावृष्टिं पयोदाः ससृजुर्यथा
ते पीड्यमाना गुरुभिर् गिरिभिश्च गणेश्वराः कर्तव्यं न विदुः किंचिद् वन्द्यमाधार्मिका इव
ततो ऽसुरवरः श्रीमांस् तारकाख्यः प्रतापवान् सतरूणां गिरीणां वै तुल्यरूपधरो बभौ
भिन्नोत्तमाङ्गा गणपा भिन्नपादाङ्किताननाः विरेजुर्भुजगा मन्त्रैर् वार्यमाणा यथा तथा
मयेन मायावीर्येण वध्यमाना गणेश्वराः भ्रमन्ति बहुशब्दालाः पञ्जरे शकुना इव
तयासुरवरः श्रीमांस् तारकाख्यः प्रतापवान् ददाह च बलं सर्वं शुष्केन्धनमिवानलः
तारकाख्येन वार्यन्ते शरवर्षैस्तदा गणाः मयेन मायानिहतास् तारकाख्येन चेषुभिः गणेशा विधुरा जाता जीर्णमूला यथा द्रुमाः
भूयः संपतते चाग्निर् ग्रहान्ग्राहान्भुजंगमान् गिरीन्द्रांश्च हरीन्व्याघ्रान् वृक्षान् सृमरवर्णकान्