वासवैतद् अरीणां ते त्रिपुरं परिदृश्यते विमानैश्च पताकाभिर् ध्वजैश्च समलंकृतम्
इदं वृत्तमिदं ख्यातं वह्निवद्भृशतापनम् एते जना गिरिप्रख्याः सकुण्डलकिरीटिनः
प्राकारगोपुराट्टेषु कक्षान्ते दानवाः स्थिताः इमे च तोयदाभासा दनुजा विकृताननाः
निर्गच्छन्ति पुरो दैत्याः सायुधा विजयैषिणः
स त्वं सुरशतैः सार्धं ससहायो वरायुधः सहद्भिर्मामकैर्भृत्यैर् व्यापादय महासुरान्
अहं च रथवर्येण निश्चलाचलवत्स्थितः पुरः पुरस्य रन्ध्रार्थी स्थास्यामि विजयाय वः
यदा तु पुष्ययोगेण एकत्वं स्थास्यते पुरम् तदेतन्निर्दहिष्यामि शरेणैकेन वासव
इत्युक्तो वै भगवता रुद्रेणेह सुरेश्वरः ययौ तत्त्रिपुरं जेतुं तेन सैन्येन संवृतः
प्रक्रान्तरथभीमैस्तैः सदेवैः पार्षदां गणैः कृतसिंहरवोपेतैर् उद्गच्छद्भिरिवाम्बुदैः
तेन नादेन त्रिपुराद् दानवा युद्धलालसाः उत्पत्य दुद्रुवुश्चेलुः सायुधाः खे गणेश्वरान्
अन्ये पयोधरारावाः पयोधरसमा बभुः ससिंहनादं वादित्रं वादयामासुरुद्धताः
देवानां सिंहनादश्च सर्वतूर्यरवो महान् ग्रस्तो ऽभूद्दैत्यनादैश्च चन्द्रस्तोयधरैरिव
चन्द्रोदयात्समुद्भूतः पौर्णमास इवार्णवः त्रिपुरं प्रभवत्तद्वद् भीमरूपमहासुरैः
प्राकारेषु पुरे तत्र गोपुरेष्वपि चापरे अट्टालकान्समारुह्य केचिच् चलितवादिनः
स्वर्णमालाधराः शूराः प्रभासितकराम्बराः केचिन् नदन्ति दनुजास् तोयमत्ता इवाम्बुदाः
इतश्चेतश्च धावन्तः केचिदुद्भूतवाससः किमेतदिति पप्रच्छुर् अन्योन्यं गृहमाश्रिताः
किमेतन्नैव जानामि ज्ञानमन्तर्हितं हि मे ज्ञास्यसे ऽनन्तरेणेति कालो विस्तारतो महान्
सो ऽप्यसौ पृथ्वीसारं च सिंहश्च रथमास्थितः तिष्ठते त्रिपुरं पीड्य देहं व्याधिरिवोच्छ्रितः
य एषो ऽस्ति स एषो ऽस्तु का चिन्ता सम्भ्रमे सति एहि आयुधम् आदाय क्व मे पृच्छा भविष्यति
इति ते ऽन्योन्यमाविद्धा उत्तरोत्तरभाषिणः आसाद्य पृच्छन्ति तदा दानवास्त्रिपुरालयाः
तारकाख्यपुरे दैत्यास् तारकाख्यपुरःसराः निर्गताः कुपितास्तूर्णं बिलादिव महोरगाः
निर्धावन्तस्तु ते दैत्याः प्रमथाधिपयूथपैः निरुद्धा गजराजानो यथा केसरियूथपैः
दर्पितानां ततश्चैषां दर्पितानाम् इवाग्नीनाम् रूपाणि जज्वलुस्तेषाम् अग्नीनामिव धम्यताम्
ततो बृहन्ति चापानि भीमनादानि सर्वशः निकृष्य जघ्नुरन्योन्यम् इषुभिः प्राणभोजनैः
मार्जारमृगभीमास्यान् पार्षदान्विकृताननान् दृष्ट्वा दृष्ट्वाहसन्नुच्चैर् दानवा रूपसम्पदा
बाहुभिः परिघाकारैः कृष्यतां धनुषां शराः भटवर्मेषु विविशुस् तडागानीव पक्षिणः
मृताः स्थ क्व नु यास्यध्वं हनिष्यामो निवर्तताम् इत्येवं परुषाण्युक्त्वा दानवाः पार्षदर्षभान्
बिभिदुः सायकैस्तीक्ष्णैः सूर्यपादा इवाम्बुदान् प्रमथा अपि सिंहाक्षाः सिंहविक्रान्तविक्रमाः खण्डशैलशिलावृक्षैर् बिभिदुर् दैत्यदानवान्
अम्बुदैराकुलमिव हंसाकुलमिवाम्बरम् दानवाकुलमत्यर्थं तत्पुरं सकलं बभौ
विकृष्टचापा दैत्येन्द्राः सृजन्ति शरदुर्दिनम् इन्द्रचापाङ्कितोरस्का जलदा इव दुर्दिनम्