आसीनं नारदं प्रेक्ष्य मयस्त्वथ महासुरः अब्रवीद्वचनं तुष्टो हृष्टरोमाननेक्षणः
औत्पातिकं पुरे ऽस्माकं यथा नान्यत्र कुत्रचित् वर्तते वर्तमानज्ञ वद त्वं हि च नारद
दृश्यन्ते भयदाः स्वप्ना भज्यन्ते च ध्वजाः परम् विना च वायुना केतुः पतते च तथा भुवि
अट्टालकाश्च नृत्यन्ते सपताकाः सगोपुराः हिंस हिंसेति श्रूयन्ते गिरश्च भयदाः पुरे
नाहं बिभेमि देवानां सेन्द्राणामपि नारद मुक्त्वैकं वरदं स्थाणुं भक्ताभयकरं हरम्
भगवन्नास्त्यविदितम् उत्पातेषु तवानघ अनागतमतीतं च भवाञ्जानाति तत्त्वतः
तदेतन्नो भयस्थानम् उत्पाताभिनिवेदितम् कथयस्व मुनिश्रेष्ठ प्रपन्नस्य तु नारद
इत्युक्तो नारदस्तेन मयेनामयवर्जितः
शृणु दानव तत्त्वेन भवन्त्यौत्पातिका यथा धर्मेति धारणे धातुर् माहात्म्ये चैव पठ्यते धारणाच्च महत्त्वेन धर्म एष निरुच्यते
स इष्टप्रापको धर्म आचार्यैरुपदिश्यते इतरश्चानिष्टफल आचार्यैर्नोपदिश्यते
उत्पथान्मार्गमागच्छेन् मार्गाच्चेव विमार्गताम् विनाशस्तस्य निर्देश्य इति वेदविदो विदुः
त्वमधर्मरथारूढः सहैभिर्मत्तदानवैः अपकारिषु देवानां कुरुषे त्वं सहायताम्
तदेतान्येवमादीनि उत्पातावेदितानि च वैनाशिकानि दृश्यन्ते दानवानां तथैव च
एष रुद्रः समास्थाय महालोकमयं रथम् आयाति त्रिपुरं हन्तुं मय त्वामसुरानपि
स त्वं महौजसं नित्यं प्रपद्यस्व महेश्वरम् यास्यसे सह पुत्रेण दानवैः सह मानद
इत्येवमावेद्य भयं दानवोपस्थितं महत् दानवानां पुनर्देवो देवेशपदमागतः
नारदे तु मुनौ याते मयो दानवनायकः शूरसंमतमित्येवं दानवानाह दानवः
शूराः स्थ जातपुत्राः स्थ कृतकृत्याः स्थ दानवाः युध्यध्वं दैवतैः सार्धं कर्तव्यं चापि नो भयम्
जित्वा वयं भविष्यामः सर्वे ऽमरसभासदः देवांश्च सेन्द्रकान्हत्वा लोकान्भोक्ष्यामहे ऽसुराः
अट्टालकेषु च तथा तिष्ठध्वं शस्त्रपाणयः दंशिता युद्धसज्जाश्च तिष्ठध्वं प्रोद्यतायुधाः
पुराणि त्रीणि चैतानि यथास्थानेषु दानवाः तिष्ठध्वं लङ्घनीयानि भविष्यन्ति पुराणि च
नमोगतास्तथा शूरा देवता विदिता हि वः ताः प्रयत्नेन वार्याश्च विदार्याश्चैव सायकैः
इति दनुतनयान्मयस्तथोक्त्वा सुरगणवारणवारणे वचांसि युवतिजनविषण्णमानसं तत् त्रिपुरपुरं सहसा विवेश राजा
अथ रजतविशुद्धभावभावो भवमभिपूज्य दिगम्बरं सुगीर्भिः शरणमुपजगाम देवदेवं मदनार्यन्धकयज्ञदेहघातम्
मयमभयपदैषिणं प्रपन्नं न किल बुबोध तृतीयदीप्तनेत्रः तदभिमतमदात्ततः शशाङ्की स च किल निर्भय एव दानवो ऽभूत्
ततो रणे देवबलं नारदो ऽभ्यगमत्पुनः आगत्य चैव त्रिपुरात् सभायामास्थितः स्वयम्
इलावृतमिति ख्यातं तद्वर्षं विस्तृतायतम् यत्र यज्ञो बलेर्वृत्तो बलिर्यत्र च संयतः
देवानां जन्मभूमिर्या त्रिषु लोकेषु विश्रुता विवाहाः क्रतवश्चैव जातकर्मादिकाः क्रियाः
देवानां यत्र वृत्तानि कन्यादानानि यानि च रेमे नित्यं भवो यत्र सहायैः पार्षदैर्गणैः
लोकपालाः सदा यत्र तस्थुर्मेरुगिरौ यथा मधुपिङ्गलनेत्रस्तु चन्द्रावयवभूषणः देवानामधिपं प्राह गणपांश्च महेश्वरः