हरमजितमजं प्रतुष्टुवुर् वचनविशेषैर् विचित्रभूषणैः रथस्त्रिपुरे सकाञ्चनाचलो व्रजति सपक्ष इवाद्रिरम्बरे
मकरतिमितिमिङ्गिलावृतः प्रलय इवातिसमुद्धतो ऽर्णवः व्रजति रथवरो ऽतिभास्वरो ह्य् अशनिनिपातपयोदनिःस्वनः
पूज्यमाने रथे तस्मिंल् लोकैर्देवे रथे स्थिते प्रमथेषु नदत्सूग्रं प्रवदत्सु च साध्विति
ईश्वरस्वरघोषेण नर्दमाने महावृषे जयत्सु विप्रेषु तथा गर्जत्सु तुरगेषु च
रणाङ्गणात्समुत्पत्य देवर्षिर्नारदः प्रभुः कान्त्या चन्द्रोपमस्तूर्णं त्रिपुरं पुरमागतः
औत्पातिकं तु दैत्यानां त्रिपुरे वर्तते ध्रुवम् नारदश्चात्र भगवान् प्रादुर्भूतस्तपोधनः
आगतं जलदाभासं समेताः सर्वदानवाः उत्तस्थुर्नारदं दृष्ट्वा अभिवादनवादिनः
तमर्घ्येण च पाद्येन मधुपर्केण चेश्वराः नारदं पूजयामासुर् ब्रह्माणमिव वासवः
तेषां स पूजां पूजार्हः प्रतिगृह्य तपोधनः नारदः सुखमासीनः काञ्चने परमासने
मयस्तु सुखमासीने नारदे नारदोद्भवे यथार्हं दानवैः सार्धम् आसीनो दानवाधिपः
आसीनं नारदं प्रेक्ष्य मयस्त्वथ महासुरः अब्रवीद्वचनं तुष्टो हृष्टरोमाननेक्षणः
औत्पातिकं पुरे ऽस्माकं यथा नान्यत्र कुत्रचित् वर्तते वर्तमानज्ञ वद त्वं हि च नारद
दृश्यन्ते भयदाः स्वप्ना भज्यन्ते च ध्वजाः परम् विना च वायुना केतुः पतते च तथा भुवि
अट्टालकाश्च नृत्यन्ते सपताकाः सगोपुराः हिंस हिंसेति श्रूयन्ते गिरश्च भयदाः पुरे
नाहं बिभेमि देवानां सेन्द्राणामपि नारद मुक्त्वैकं वरदं स्थाणुं भक्ताभयकरं हरम्
भगवन्नास्त्यविदितम् उत्पातेषु तवानघ अनागतमतीतं च भवाञ्जानाति तत्त्वतः
तदेतन्नो भयस्थानम् उत्पाताभिनिवेदितम् कथयस्व मुनिश्रेष्ठ प्रपन्नस्य तु नारद
इत्युक्तो नारदस्तेन मयेनामयवर्जितः
शृणु दानव तत्त्वेन भवन्त्यौत्पातिका यथा धर्मेति धारणे धातुर् माहात्म्ये चैव पठ्यते धारणाच्च महत्त्वेन धर्म एष निरुच्यते
स इष्टप्रापको धर्म आचार्यैरुपदिश्यते इतरश्चानिष्टफल आचार्यैर्नोपदिश्यते
उत्पथान्मार्गमागच्छेन् मार्गाच्चेव विमार्गताम् विनाशस्तस्य निर्देश्य इति वेदविदो विदुः
त्वमधर्मरथारूढः सहैभिर्मत्तदानवैः अपकारिषु देवानां कुरुषे त्वं सहायताम्
तदेतान्येवमादीनि उत्पातावेदितानि च वैनाशिकानि दृश्यन्ते दानवानां तथैव च
एष रुद्रः समास्थाय महालोकमयं रथम् आयाति त्रिपुरं हन्तुं मय त्वामसुरानपि
स त्वं महौजसं नित्यं प्रपद्यस्व महेश्वरम् यास्यसे सह पुत्रेण दानवैः सह मानद
इत्येवमावेद्य भयं दानवोपस्थितं महत् दानवानां पुनर्देवो देवेशपदमागतः
नारदे तु मुनौ याते मयो दानवनायकः शूरसंमतमित्येवं दानवानाह दानवः
शूराः स्थ जातपुत्राः स्थ कृतकृत्याः स्थ दानवाः युध्यध्वं दैवतैः सार्धं कर्तव्यं चापि नो भयम्
जित्वा वयं भविष्यामः सर्वे ऽमरसभासदः देवांश्च सेन्द्रकान्हत्वा लोकान्भोक्ष्यामहे ऽसुराः
अट्टालकेषु च तथा तिष्ठध्वं शस्त्रपाणयः दंशिता युद्धसज्जाश्च तिष्ठध्वं प्रोद्यतायुधाः