इत्युक्त्वा देवदेवेन देवा विद्धा इवेषुभिः अवापुर्महतीं चिन्तां कथं कार्यमिति ब्रुवन्
महादेवस्य देवो ऽन्यः को नाम सदृशो भवेत् मुक्त्वा चक्रायुधं देवं सो ऽप्यस्येषुं समाश्रितः
धुरि युक्ता इवोक्षाणो घटन्त इव पर्वतैः निश्वसन्तः सुराः सर्वे कथमेतदिति ब्रुवन्
देवेष्वाह देवदेवो लोकनाथस्य धूर्गतान् अहं सारथिरित्युक्त्वा जग्राहाश्वांस्ततो ऽग्रजः
ततो देवैः सगन्धर्वैः सिंहनादो महान्कृतः प्रतोदहस्तं सम्प्रेक्ष्य ब्रह्माणं सूततां गतम्
भगवानपि विश्वेशो रथस्थे वै पितामहे सदृशः सूत इत्युक्त्वा चारुरोह रथं हरः
आरोहति रथं देवे ह्य् अश्वा हरभरातुराः जानुभिः पतिता भूमौ रजोग्रासश्च ग्रासितः
देवो दृष्ट्वाथ वेदांस्तान् अभीरुग्रहयान् भयात् उज्जहार पितॄनार्तान् सुपुत्र इव दुःखितान्
ततः सिंहरवो भूयो बभूव रथभैरवः जयशब्दश्च देवानां संबभूवार्णवोपमः
तदोंकारमयं गृह्य प्रतोदं वरदः प्रभुः स्वयम्भूः प्रययौ वाहान् अनुमन्त्र्य यथाजवम्
ग्रसमाना इवाकाशं मुष्णन्त इव मेदिनीम् मुखेभ्यः ससृजुः श्वासान् उच्छ्वसन्त इवोरगाः
स्वयम्भुवा चोद्यमानाश् चोदितेन कपर्दिना व्रजन्ति ते ऽश्वा जवनाः क्षयकाल इवानिलाः
ध्वजोच्छ्रयविनिर्माणे ध्वजयष्टिमनुत्तमाम् आक्रम्य नन्दी वृषभस् तस्थौ तस्मिञ्छिवेच्छया
भार्गवाङ्गिरसौ देवौ दण्डहस्तौ रविप्रभौ रथचक्रे तु रक्षेते रुद्रस्य प्रियकाङ्क्षिणौ
शेषश्च भगवान्नागो ऽनन्तो ऽनन्तकरो ऽरिणाम् शरहस्तो रथं पाति शयनं ब्रह्मणस्तदा
यमस्तूर्णं समास्थाय महिषं चातिदारुणम् द्रविणाधिपतिर्व्यालं सुराणामधिपो द्विपम्
मयूरं शतचन्द्रं च कूजन्तं किंनरं यथा गुह आस्थाय वरदो युगोपमरथं पितुः
नन्दीश्वरश्च भगवाञ् छूलमादाय दीप्तिमान् पृष्ठतश्चापि पार्श्वाभ्यां लोकस्य क्षयकृद्यथा
प्रमथाश्चाग्निवर्णाभाः साग्निज्वाला इवाचलाः अनुजग्मू रथं शार्वं नक्रा इव महार्णवम्
भृगुर्भरद्वाजवसिष्ठगौतमाः क्रतुः पुलस्त्यः पुलहस्तपोधनाः मरीचिरत्रिर्भगवानथाङ्गिराः पराशरागस्त्यमुखा महर्षयः
हरमजितमजं प्रतुष्टुवुर् वचनविशेषैर् विचित्रभूषणैः रथस्त्रिपुरे सकाञ्चनाचलो व्रजति सपक्ष इवाद्रिरम्बरे
मकरतिमितिमिङ्गिलावृतः प्रलय इवातिसमुद्धतो ऽर्णवः व्रजति रथवरो ऽतिभास्वरो ह्य् अशनिनिपातपयोदनिःस्वनः
पूज्यमाने रथे तस्मिंल् लोकैर्देवे रथे स्थिते प्रमथेषु नदत्सूग्रं प्रवदत्सु च साध्विति
ईश्वरस्वरघोषेण नर्दमाने महावृषे जयत्सु विप्रेषु तथा गर्जत्सु तुरगेषु च
रणाङ्गणात्समुत्पत्य देवर्षिर्नारदः प्रभुः कान्त्या चन्द्रोपमस्तूर्णं त्रिपुरं पुरमागतः
औत्पातिकं तु दैत्यानां त्रिपुरे वर्तते ध्रुवम् नारदश्चात्र भगवान् प्रादुर्भूतस्तपोधनः
आगतं जलदाभासं समेताः सर्वदानवाः उत्तस्थुर्नारदं दृष्ट्वा अभिवादनवादिनः
तमर्घ्येण च पाद्येन मधुपर्केण चेश्वराः नारदं पूजयामासुर् ब्रह्माणमिव वासवः
तेषां स पूजां पूजार्हः प्रतिगृह्य तपोधनः नारदः सुखमासीनः काञ्चने परमासने
मयस्तु सुखमासीने नारदे नारदोद्भवे यथार्हं दानवैः सार्धम् आसीनो दानवाधिपः