ब्रह्मवध्या च गोवध्या बालवध्या प्रजाभयाः गदा भूत्वा शक्तयश्च तदा देवरथे ऽभ्ययुः
युगं कृतयुगं चात्र चातुर्होत्रप्रयोजकाः चतुर्वर्णाः सलीलाश्च बभूवुः स्वर्णकुण्डलाः
तद्युगं युगसंकाशं रथशीर्षे प्रतिष्ठितम् धृतराष्ट्रेण नागेन बद्धं बलवता महत्
ऋग्वेदः सामवेदश्च यजुर्वेदस्तथा परः वेदाश् चत्वार एवैते चत्वारस्तुरगाभवन्
अन्नदानपुरोगाणि यानि दानानि कानिचित् तान्यासन्वाजिनां तेषां भूषणानि सहस्रशः
पद्मद्वयं तक्षकश्च कर्कोटकधनंजयौ नागा बभूवुरेवैते हयानां वालबन्धनाः
ओंकारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा
यज्ञोपवाहान्येतानि तस्मिंल्लोकरथे शुभे मणिमुक्ताप्रवालैस्तु भूषितानि सहस्रशः
प्रतोद ओंकार एवासीत् तदग्रं च वषट्कृतम् सिनीवाली कुहू राका तथा चानुमतिः शुभा योक्त्राण्यासंस्तुरंगाणाम् अपसर्पणविग्रहाः
कृष्णान्यथ च पीतानि श्वेतमाञ्जिष्ठकानि च अवदाताः पताकास्तु बभूवुः पवनेरिताः
ऋतुभिश्च कृतः षड्भिर् धनुः संवत्सरो ऽभवत् अजरा ज्याभवच्चापि साम्बिका धनुषो दृढा
कालो हि भगवान्रुद्रस् तं च संवत्सरं विदुः तस्मादुमा कालरात्रिर् धनुषो ज्याजराभवत्
सगर्भं त्रिपुरं येन दग्धवान्स त्रिलोचनः स इषुर्विष्णुसोमाग्नित्रिदैवतमयो ऽभवत्
आननं ह्यग्निरभवच् छल्यं सोमस्तमोनुदः तेजसः समवायो ऽथ चेषोस्तेजो रथाङ्गधृक्
तस्मिंश्च वीर्यवृद्ध्यर्थं वासुकिर्नागपार्थिवः तेजःसंवसनार्थं वै मुमोचातिविषो विषम्
कृत्वा देवा रथं चापि दिव्यं दिव्यप्रभावतः लोकाधिपतिमभ्येत्य इदं वचनमब्रुवन्
संस्कृतो ऽयं रथो ऽस्माभिस् तव दानवशत्रुजित् इदमापत्परित्राणं देवान्सेन्द्रपुरोगमान्
तं मेरुशिखराकारं त्रैलोक्यरथमुत्तमम् प्रशस्य देवान्साध्विति रथं पश्यति शंकरः
मुहुर्दृष्ट्वा रथं साधु साध्वित्युक्त्वा मुहुर्मुहुः उवाच सेन्द्रानमरान् अमराधिपतिः स्वयम्
यादृशो ऽयं रथः कॢप्तो युष्माभिर्मम सत्तमाः ईदृशो रथसम्पत्त्या यन्ता शीघ्रं विधीयताम्
इत्युक्त्वा देवदेवेन देवा विद्धा इवेषुभिः अवापुर्महतीं चिन्तां कथं कार्यमिति ब्रुवन्
महादेवस्य देवो ऽन्यः को नाम सदृशो भवेत् मुक्त्वा चक्रायुधं देवं सो ऽप्यस्येषुं समाश्रितः
धुरि युक्ता इवोक्षाणो घटन्त इव पर्वतैः निश्वसन्तः सुराः सर्वे कथमेतदिति ब्रुवन्
देवेष्वाह देवदेवो लोकनाथस्य धूर्गतान् अहं सारथिरित्युक्त्वा जग्राहाश्वांस्ततो ऽग्रजः
ततो देवैः सगन्धर्वैः सिंहनादो महान्कृतः प्रतोदहस्तं सम्प्रेक्ष्य ब्रह्माणं सूततां गतम्
भगवानपि विश्वेशो रथस्थे वै पितामहे सदृशः सूत इत्युक्त्वा चारुरोह रथं हरः
आरोहति रथं देवे ह्य् अश्वा हरभरातुराः जानुभिः पतिता भूमौ रजोग्रासश्च ग्रासितः
देवो दृष्ट्वाथ वेदांस्तान् अभीरुग्रहयान् भयात् उज्जहार पितॄनार्तान् सुपुत्र इव दुःखितान्
ततः सिंहरवो भूयो बभूव रथभैरवः जयशब्दश्च देवानां संबभूवार्णवोपमः
तदोंकारमयं गृह्य प्रतोदं वरदः प्रभुः स्वयम्भूः प्रययौ वाहान् अनुमन्त्र्य यथाजवम्