चक्रुश्चन्द्रं च सूर्यं च चक्रे काञ्चनराजते कृष्णपक्षं शुक्लपक्षं पक्षद्वयमपीश्वराः
रथनेमिद्वयं चक्रुर् देवा ब्रह्मपुरःसराः आदिद्वयं पक्षयन्त्रं यन्त्रमेताश्च देवताः
कम्बलाश्वतराभ्यां च नागाभ्यां समवेष्टितम् भार्गवश्चाङ्गिराश्चैव बुधो ऽङ्गारक एव च
शनैश्चरस्तथा चात्र सर्वे ते देवसत्तमाः वरूथं गगनं चक्रुश् चारुरूपं रथस्य ते
कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम् मणिमुक्तेन्द्रनीलैश्च वृतं ह्यष्टमुखैः सुरैः
गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा इरावती वितस्ता च विपाशा च यमुना गण्डकी तथा
सरस्वती देविका च तथा च सरयूरपि एताः सरिद्वराः सर्वा वेणुसंज्ञा कृता रथे
धृतराष्ट्राश्च ये नागास् ते च वेश्यात्मकाः कृताः वासुकेः कुलजा ये च ये च रैवतवंशजाः
ते सर्पा दर्पसम्पूर्णाश् चापतूणेष्व् अनूनगाः अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः
सुरसा सरमा कद्रूर् विनता शुचिरेव च तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्वशमस्तथा
ब्रह्मवध्या च गोवध्या बालवध्या प्रजाभयाः गदा भूत्वा शक्तयश्च तदा देवरथे ऽभ्ययुः
युगं कृतयुगं चात्र चातुर्होत्रप्रयोजकाः चतुर्वर्णाः सलीलाश्च बभूवुः स्वर्णकुण्डलाः
तद्युगं युगसंकाशं रथशीर्षे प्रतिष्ठितम् धृतराष्ट्रेण नागेन बद्धं बलवता महत्
ऋग्वेदः सामवेदश्च यजुर्वेदस्तथा परः वेदाश् चत्वार एवैते चत्वारस्तुरगाभवन्
अन्नदानपुरोगाणि यानि दानानि कानिचित् तान्यासन्वाजिनां तेषां भूषणानि सहस्रशः
पद्मद्वयं तक्षकश्च कर्कोटकधनंजयौ नागा बभूवुरेवैते हयानां वालबन्धनाः
ओंकारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा
यज्ञोपवाहान्येतानि तस्मिंल्लोकरथे शुभे मणिमुक्ताप्रवालैस्तु भूषितानि सहस्रशः
प्रतोद ओंकार एवासीत् तदग्रं च वषट्कृतम् सिनीवाली कुहू राका तथा चानुमतिः शुभा योक्त्राण्यासंस्तुरंगाणाम् अपसर्पणविग्रहाः
कृष्णान्यथ च पीतानि श्वेतमाञ्जिष्ठकानि च अवदाताः पताकास्तु बभूवुः पवनेरिताः
ऋतुभिश्च कृतः षड्भिर् धनुः संवत्सरो ऽभवत् अजरा ज्याभवच्चापि साम्बिका धनुषो दृढा
कालो हि भगवान्रुद्रस् तं च संवत्सरं विदुः तस्मादुमा कालरात्रिर् धनुषो ज्याजराभवत्
सगर्भं त्रिपुरं येन दग्धवान्स त्रिलोचनः स इषुर्विष्णुसोमाग्नित्रिदैवतमयो ऽभवत्
आननं ह्यग्निरभवच् छल्यं सोमस्तमोनुदः तेजसः समवायो ऽथ चेषोस्तेजो रथाङ्गधृक्
तस्मिंश्च वीर्यवृद्ध्यर्थं वासुकिर्नागपार्थिवः तेजःसंवसनार्थं वै मुमोचातिविषो विषम्
कृत्वा देवा रथं चापि दिव्यं दिव्यप्रभावतः लोकाधिपतिमभ्येत्य इदं वचनमब्रुवन्
संस्कृतो ऽयं रथो ऽस्माभिस् तव दानवशत्रुजित् इदमापत्परित्राणं देवान्सेन्द्रपुरोगमान्
तं मेरुशिखराकारं त्रैलोक्यरथमुत्तमम् प्रशस्य देवान्साध्विति रथं पश्यति शंकरः
मुहुर्दृष्ट्वा रथं साधु साध्वित्युक्त्वा मुहुर्मुहुः उवाच सेन्द्रानमरान् अमराधिपतिः स्वयम्
यादृशो ऽयं रथः कॢप्तो युष्माभिर्मम सत्तमाः ईदृशो रथसम्पत्त्या यन्ता शीघ्रं विधीयताम्