तदाश्रित्य पुरं दुर्गं दानवा वरनिर्भयाः बाधन्ते ऽस्मान्महादेव प्रेष्यमस्वामिनं यथा
उद्यानानि च भग्नानि नन्दनादीनि यानि च वराश्चाप्सरसः सर्वा रम्भाद्या दनुजैर्हृताः
इन्द्रस्य वाह्याश्च गजाः कुमुदाञ्जनवामनाः ऐरावताद्या अपहृता देवतानां महेश्वर
ये चेन्द्ररथमुख्याश् च हरयो ऽपहृतासुरैः जाताश्च दानवानां ते रथयोग्यास्तुरंगमाः
ये रथा ये गजाश्चैव याः स्त्रियो वसु यच्च नः तन्नो व्यपहृतं दैत्यैः संशयो जीविते पुनः
त्रिनेत्र एवमुक्तस्तु देवैः शक्रपुरोगमैः उवाच देवान्देवेशो वरदो वृषवाहनः
व्यपगच्छतु वो देवा महद्दानवजं भयम् तदहं त्रिपुरं धक्ष्ये क्रियतां यद्ब्रवीमि तत्
यदीच्छत मया दग्धुं तत्पुरं सहमानवम् रथमौपयिकं मह्यं सज्जयध्वं किमास्यते
दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः तथेत्युक्त्वा महादेवं चक्रुस्ते रथमुत्तमम्
धरां कूबरकौ द्वौ तु रुद्रपार्श्वचरावुभौ अधिष्ठानं शिरो मेरोर् अक्षो मन्दर एव च
चक्रुश्चन्द्रं च सूर्यं च चक्रे काञ्चनराजते कृष्णपक्षं शुक्लपक्षं पक्षद्वयमपीश्वराः
रथनेमिद्वयं चक्रुर् देवा ब्रह्मपुरःसराः आदिद्वयं पक्षयन्त्रं यन्त्रमेताश्च देवताः
कम्बलाश्वतराभ्यां च नागाभ्यां समवेष्टितम् भार्गवश्चाङ्गिराश्चैव बुधो ऽङ्गारक एव च
शनैश्चरस्तथा चात्र सर्वे ते देवसत्तमाः वरूथं गगनं चक्रुश् चारुरूपं रथस्य ते
कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम् मणिमुक्तेन्द्रनीलैश्च वृतं ह्यष्टमुखैः सुरैः
गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा इरावती वितस्ता च विपाशा च यमुना गण्डकी तथा
सरस्वती देविका च तथा च सरयूरपि एताः सरिद्वराः सर्वा वेणुसंज्ञा कृता रथे
धृतराष्ट्राश्च ये नागास् ते च वेश्यात्मकाः कृताः वासुकेः कुलजा ये च ये च रैवतवंशजाः
ते सर्पा दर्पसम्पूर्णाश् चापतूणेष्व् अनूनगाः अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः
सुरसा सरमा कद्रूर् विनता शुचिरेव च तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्वशमस्तथा
ब्रह्मवध्या च गोवध्या बालवध्या प्रजाभयाः गदा भूत्वा शक्तयश्च तदा देवरथे ऽभ्ययुः
युगं कृतयुगं चात्र चातुर्होत्रप्रयोजकाः चतुर्वर्णाः सलीलाश्च बभूवुः स्वर्णकुण्डलाः
तद्युगं युगसंकाशं रथशीर्षे प्रतिष्ठितम् धृतराष्ट्रेण नागेन बद्धं बलवता महत्
ऋग्वेदः सामवेदश्च यजुर्वेदस्तथा परः वेदाश् चत्वार एवैते चत्वारस्तुरगाभवन्
अन्नदानपुरोगाणि यानि दानानि कानिचित् तान्यासन्वाजिनां तेषां भूषणानि सहस्रशः
पद्मद्वयं तक्षकश्च कर्कोटकधनंजयौ नागा बभूवुरेवैते हयानां वालबन्धनाः
ओंकारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा
यज्ञोपवाहान्येतानि तस्मिंल्लोकरथे शुभे मणिमुक्ताप्रवालैस्तु भूषितानि सहस्रशः
प्रतोद ओंकार एवासीत् तदग्रं च वषट्कृतम् सिनीवाली कुहू राका तथा चानुमतिः शुभा योक्त्राण्यासंस्तुरंगाणाम् अपसर्पणविग्रहाः
कृष्णान्यथ च पीतानि श्वेतमाञ्जिष्ठकानि च अवदाताः पताकास्तु बभूवुः पवनेरिताः