वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे तप्यमानाय सलिले ब्रह्मण्यायाजिताय च
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते नमो ऽस्तु दिव्यरूपाय प्रभवे दिव्यशम्भवे
अभिगम्याय काम्याय स्तुत्यायार्च्याय सर्वदा भक्तानुकम्पिने नित्यं दिशते यन्मनोगतम्
ब्रह्माद्यैः स्तूयमानस्तु देवैर्देवो महेश्वरः प्रजापतिमुवाचेदं देवानां क्व भयं महत्
भो देवाः स्वागतं वो ऽस्तु ब्रूत यद्वो मनोगतम् तावदेव प्रयच्छामि नास्त्यदेयं मया हि वः
युष्माकं नितरां शं वै कर्ताहं विबुधर्षभाः चरामि महदत्युग्रं यच्चापि परमं तपः
विद्विष्टा वो मम द्विष्टाः कष्टाः कष्टपराक्रमाः तेषामभावः संपाद्यो युष्माकं भव एव च
एवमुक्तास्तु देवेन प्रेम्णा सब्रह्मकाः सुराः रुद्रमाहुर्महाभागं भागार्हाः सर्व एव ते
भगवंस्तैस्तपस्तप्तं रौद्रं रौद्रपराक्रमैः असुरैर्वध्यमानाः स्म वयं त्वां शरणं गताः
मयो नाम दितेः पुत्रस् त्रिनेत्र कलहप्रियः त्रिपुरं येन तद्दुर्गं कृतं पाण्डुरगोपुरम्
तदाश्रित्य पुरं दुर्गं दानवा वरनिर्भयाः बाधन्ते ऽस्मान्महादेव प्रेष्यमस्वामिनं यथा
उद्यानानि च भग्नानि नन्दनादीनि यानि च वराश्चाप्सरसः सर्वा रम्भाद्या दनुजैर्हृताः
इन्द्रस्य वाह्याश्च गजाः कुमुदाञ्जनवामनाः ऐरावताद्या अपहृता देवतानां महेश्वर
ये चेन्द्ररथमुख्याश् च हरयो ऽपहृतासुरैः जाताश्च दानवानां ते रथयोग्यास्तुरंगमाः
ये रथा ये गजाश्चैव याः स्त्रियो वसु यच्च नः तन्नो व्यपहृतं दैत्यैः संशयो जीविते पुनः
त्रिनेत्र एवमुक्तस्तु देवैः शक्रपुरोगमैः उवाच देवान्देवेशो वरदो वृषवाहनः
व्यपगच्छतु वो देवा महद्दानवजं भयम् तदहं त्रिपुरं धक्ष्ये क्रियतां यद्ब्रवीमि तत्
यदीच्छत मया दग्धुं तत्पुरं सहमानवम् रथमौपयिकं मह्यं सज्जयध्वं किमास्यते
दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः तथेत्युक्त्वा महादेवं चक्रुस्ते रथमुत्तमम्
धरां कूबरकौ द्वौ तु रुद्रपार्श्वचरावुभौ अधिष्ठानं शिरो मेरोर् अक्षो मन्दर एव च
चक्रुश्चन्द्रं च सूर्यं च चक्रे काञ्चनराजते कृष्णपक्षं शुक्लपक्षं पक्षद्वयमपीश्वराः
रथनेमिद्वयं चक्रुर् देवा ब्रह्मपुरःसराः आदिद्वयं पक्षयन्त्रं यन्त्रमेताश्च देवताः
कम्बलाश्वतराभ्यां च नागाभ्यां समवेष्टितम् भार्गवश्चाङ्गिराश्चैव बुधो ऽङ्गारक एव च
शनैश्चरस्तथा चात्र सर्वे ते देवसत्तमाः वरूथं गगनं चक्रुश् चारुरूपं रथस्य ते
कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम् मणिमुक्तेन्द्रनीलैश्च वृतं ह्यष्टमुखैः सुरैः
गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा इरावती वितस्ता च विपाशा च यमुना गण्डकी तथा
सरस्वती देविका च तथा च सरयूरपि एताः सरिद्वराः सर्वा वेणुसंज्ञा कृता रथे
धृतराष्ट्राश्च ये नागास् ते च वेश्यात्मकाः कृताः वासुकेः कुलजा ये च ये च रैवतवंशजाः
ते सर्पा दर्पसम्पूर्णाश् चापतूणेष्व् अनूनगाः अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः
सुरसा सरमा कद्रूर् विनता शुचिरेव च तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्वशमस्तथा