कृतः पुराणां विष्कम्भो योजमानां शतं शतम् यथा चैकप्रहारेण हन्यते वै भवेन तु पुष्ययोगेण युक्तानि तानि चैकक्षणेन तु
ततो देवैश्च सम्प्रोक्तो यास्याम इति दुःखितैः पितामहश्च तैः सार्धं भवसंसदमागतः
तं भवं भूतभव्येशं गिरिशं शूलपाणिनम् पश्यन्ति चोमया सार्धं नन्दिना च महात्मना
अग्निवर्णमजं देवम् अग्निकुण्डनिभेक्षणम् अग्न्यादित्यसहस्राभम् अग्निवर्णविभूषितम्
चन्द्रावयवलक्ष्माणं चन्द्रसौम्यतराननम् आगम्य तमजं देवम् अथ तं नीललोहितम् अस्तुवन्गोपतिं शम्भुं वरदं पार्वतीपतिम्
नमो भवाय शर्वाय रुद्राय वरदाय च पशूनां पतये नित्यम् उग्राय च कपर्दिने
महादेवाय भीमाय त्र्यम्बकाय च शान्तये ईशानाय भयघ्नाय नमस्त्वन्धकघातिने
नीलग्रीवाय भीमाय वेधसे वेधसा स्तुते कुमारशत्रुनिघ्नाय कुमारजनकाय च
विलोहिताय धूम्राय वराय क्रथनाय च नित्यं नीलशिखण्डाय शूलिने दिव्यशायिने
उरगाय त्रिनेत्राय हिरण्यवसुरेतसे अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे तप्यमानाय सलिले ब्रह्मण्यायाजिताय च
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते नमो ऽस्तु दिव्यरूपाय प्रभवे दिव्यशम्भवे
अभिगम्याय काम्याय स्तुत्यायार्च्याय सर्वदा भक्तानुकम्पिने नित्यं दिशते यन्मनोगतम्
ब्रह्माद्यैः स्तूयमानस्तु देवैर्देवो महेश्वरः प्रजापतिमुवाचेदं देवानां क्व भयं महत्
भो देवाः स्वागतं वो ऽस्तु ब्रूत यद्वो मनोगतम् तावदेव प्रयच्छामि नास्त्यदेयं मया हि वः
युष्माकं नितरां शं वै कर्ताहं विबुधर्षभाः चरामि महदत्युग्रं यच्चापि परमं तपः
विद्विष्टा वो मम द्विष्टाः कष्टाः कष्टपराक्रमाः तेषामभावः संपाद्यो युष्माकं भव एव च
एवमुक्तास्तु देवेन प्रेम्णा सब्रह्मकाः सुराः रुद्रमाहुर्महाभागं भागार्हाः सर्व एव ते
भगवंस्तैस्तपस्तप्तं रौद्रं रौद्रपराक्रमैः असुरैर्वध्यमानाः स्म वयं त्वां शरणं गताः
मयो नाम दितेः पुत्रस् त्रिनेत्र कलहप्रियः त्रिपुरं येन तद्दुर्गं कृतं पाण्डुरगोपुरम्
तदाश्रित्य पुरं दुर्गं दानवा वरनिर्भयाः बाधन्ते ऽस्मान्महादेव प्रेष्यमस्वामिनं यथा
उद्यानानि च भग्नानि नन्दनादीनि यानि च वराश्चाप्सरसः सर्वा रम्भाद्या दनुजैर्हृताः
इन्द्रस्य वाह्याश्च गजाः कुमुदाञ्जनवामनाः ऐरावताद्या अपहृता देवतानां महेश्वर
ये चेन्द्ररथमुख्याश् च हरयो ऽपहृतासुरैः जाताश्च दानवानां ते रथयोग्यास्तुरंगमाः
ये रथा ये गजाश्चैव याः स्त्रियो वसु यच्च नः तन्नो व्यपहृतं दैत्यैः संशयो जीविते पुनः
त्रिनेत्र एवमुक्तस्तु देवैः शक्रपुरोगमैः उवाच देवान्देवेशो वरदो वृषवाहनः
व्यपगच्छतु वो देवा महद्दानवजं भयम् तदहं त्रिपुरं धक्ष्ये क्रियतां यद्ब्रवीमि तत्
यदीच्छत मया दग्धुं तत्पुरं सहमानवम् रथमौपयिकं मह्यं सज्जयध्वं किमास्यते
दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः तथेत्युक्त्वा महादेवं चक्रुस्ते रथमुत्तमम्
धरां कूबरकौ द्वौ तु रुद्रपार्श्वचरावुभौ अधिष्ठानं शिरो मेरोर् अक्षो मन्दर एव च