सिद्धिं प्रयान्ति योगेन पुनरावृत्तिदुर्लभाम् योगिनामेव देयानि तस्माच्छ्राद्धानि दातृभिः
एतेषां मानसी कन्या पत्नी हिमवतो मता मैनाकस्तस्य दायादः क्रौञ्चस्तस्याग्रजो ऽभवत् क्रौञ्चद्वीपः स्मृतो येन चतुर्थो घृतसंवृतः
मेना च सुषुवे तिस्रः कन्या योगवतीस्ततः उमैकपर्णापर्णा च तीव्रव्रतपरायणाः
रुद्रस्यैका सितस्यैका जैगीषव्यस्य चापरा दत्ता हिमवता बालाः सर्वा लोके तपो ऽधिकाः
कस्माद्दाक्षायणी पूर्वं ददाहात्मानमात्मना हिमवद्दुहिता तद्वत् कथं जाता महीतले
संहरन्ती किमुक्तासौ सुता वा ब्रह्मसूनुना दक्षेण लोकजननी सूत विस्तरतो वद
दक्षस्य यज्ञे वितते प्रभूतवरदक्षिणे समाहूतेषु देवेषु प्रोवाच पितरं सती
किमर्थं तात भर्ता मे यज्ञे ऽस्मिन्नाभिमन्त्रितः अयोग्य इति तामाह दक्षो यज्ञेषु शूलभृत्
उपसंहारकृद्रुद्रस् तेनामङ्गलभागयम् चुकोपाथ सती देहं त्यक्ष्यामीति त्वदुद्भवम्
दशानां त्वं च भविता पितॄणामेकपुत्रकः क्षत्रियत्वे ऽश्वमेधे च रुद्रात्त्वं नाशमेष्यसि
इत्युक्त्वा योगमास्थाय स्वदेहोद्भवतेजसा निर्दहन्ती तदात्मानं सदेवासुरकिंनरैः
किं किमेतदिति प्रोक्ता गन्धर्वगणगुह्यकैः उपगम्याब्रवीद्दक्षः प्रणिपत्याथ दुःखितः
त्वमस्य जगतो माता जगत्सौभाग्यदेवता दुहितृत्वं गता देवि ममानुग्रहकाम्यया
न त्वया रहितं किंचिद् ब्रह्माण्डे सचराचरम् प्रसादं कुरु धर्मज्ञे न मां त्यक्तुमिहार्हसि
प्राह देवी यदारब्धं तत्कार्यं मे न संशयः किंत्ववश्यं त्वया मर्त्ये हतयज्ञेन शूलिना
प्रसादे लोकसृष्ट्यर्थं तपः कार्यं ममान्तिके प्रजापतिस्त्वं भविता दशानामङ्गजो ऽप्यलम्
मदंशेनाङ्गना षष्टिर् भविष्यन्त्यङ्गजास्तव मत्संनिधौ तपः कुर्वन् प्राप्स्यसे योगमुत्तमम्
एवमुक्तो ऽब्रवीद्दक्षः केषु केषु मयानघे तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः
सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि सर्वलोकेषु यत्किंचिद् रहितं न मया विना
तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः स्मर्तव्या भूतिकामैर् वा तानि वक्ष्यामि तत्त्वतः
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी प्रयागे ललिता देवी कामाक्षी गन्धमादने मानसे कुमुदा नाम विश्वकाया तथाम्बरे
गोमन्ते गोमती नाम मन्दरे कामचारिणी मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे
कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते एकाम्भके कीर्तिमती विश्वां विश्वेश्वरे विदुः
पुष्करे पुरुहूतेति केदारे मार्गदायिनी नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका
स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्त्रिका श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा
जया वराहशैले तु कामला कमलालये रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ
महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी शालग्रामे महादेवी शिवलिङ्गे जलप्रिया
मायापुर्यां कुमारी तु संताने ललिता तथा उत्पलाक्षी सहस्राक्षे कमलाक्षे महोत्पला
गङ्गायां मङ्गला नाम विमिला पुरुषोत्तमे विपाशायाम् अमोघाक्षी पाटला पुण्ड्रवर्धने
नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी विपुले विपुला नाम कल्याणी मलयाचले