कलहं वर्जयन्तश्च अर्जयन्तस् तथार्जवम् स्वप्नोदयं प्रतीक्षध्वं कालोदयमथापि च
श्रुत्वा दाक्षायणीपुत्रा इत्येवं मयभाषितम् क्रोधेर्ष्यावस्थया युक्ता दृश्यन्ते च विनाशगाः
विनाशम् उपपश्यन्तो ह्य् अलक्ष्म्या व्यापितासुराः तत्रैव दृष्ट्वा ते ऽन्योन्यं सक्रोधापूरितेक्षणाः
अथ दैवपरिध्वस्ता दानवास्त्रिपुरालयाः हित्वा सत्यं च धर्मं च अकार्याण्युपचक्रमुः
द्विषन्ति ब्राह्मणान्पुण्यान् न चार्चन्ति हि देवताः गुरुं चैव न मन्यन्ते ह्य् अन्योन्यं चापि चुक्रुधुः
कलहेषु च सज्जन्ते स्वधर्मेषु हसन्ति च परस्परं च निन्दन्ति अहमित्येव वादिनः
उच्चैर्गुरून्प्रभाषन्ते नाभिभाषन्ति पूजिताः अकस्मात्साश्रुनयना जायन्ते च समुत्सुकाः
दधिसक्तून्पयश्चैव कपित्थानि च रात्रिषु भक्षयन्ति च शेरन्त उच्छिष्टाः संवृतास्तथा
मूत्रं कृत्वोपस्पृशन्ति चाकृत्वा पादधावनम् संविशन्ति च शय्यासु शौचाचारविवर्जिताः
संकुचन्ति भयाच्चैव मार्जाराणां यथाखुकः भार्यां गत्वा न शुध्यन्ति रहोवृत्तिषु निस्त्रपाः
पुरा सुशीला भूत्वा च दुःशीलत्वमुपागताः देवांस्तपोधनांश्चैव बाधन्ते त्रिपुरालयाः
मयेन वार्यमाणा अपि ते विनाशमुपस्थिताः विप्रियाण्येव विप्राणां कुर्वाणाः कलहैषिणः
वैभ्राजं नन्दनं चैव तथा चैत्ररथं वनम् अशोकं च वराशोकं सर्वर्तुकमथापि च
स्वर्गं च देवतावासं पूर्वदेववशानुगाः विध्वंसयन्ति संक्रुद्धास् तपोधनवनानि च
विध्वस्तदेवायतनाश्रमं च संभग्नदेवद्विजपूजकं तु जगद्बभूवामरराजदुष्टैर् अभिद्रुतं सस्यमिवालिवृन्दैः
अशीलेषु प्रदुष्टेषु दानवेषु दुरात्मसु लोकेषूत्साद्यमानेषु तपोधनवनेषु च
सिंहनादे व्योमगानां तेषु भीतेषु जन्तुषु त्रैलोक्ये भयसंमूढे तमोन्धन्वम् उपागते
आदित्या वसवः साध्याः पितरो मरुतां गणाः भीताः शरणमाजग्मुर् ब्रह्माणां प्रपितामहम्
ते तं स्वर्णोत्पलासीनं ब्रह्माणं समुपागताः नेमुरूचुश्च सहिताः पञ्चास्यं चतुराननम्
वरगुप्तास्तवैवेह दानवास्त्रिपुरालयाः बाधन्ते ऽस्मान्यथा प्रेष्यान् अनुशाधि ततो ऽनघ
मेघागमे यथा हंसा मृगाः सिंहभयादिव दानवानां भयात्तद्वद् भ्रमामो हि पितामह
पुत्राणां नामधेयानि कलत्राणां तथैव च दानवैर्भ्राम्यमाणानां विस्मृतानि ततो ऽनघ
देववेश्मप्रभङ्गाश्च आश्रमभ्रंशनानि च दानवैर्लोममोहान्धैः क्रियन्ते च भ्रमन्ति च
यदि न त्रायसे लोकं दानवैर्विद्रुतं द्रुतम् धर्षणानेन निर्देवं निर्मनुष्याश्रमं जगत्
इत्येवं त्रिदशैरुक्तः पद्मयोनिः पितामहः प्रत्याह त्रिदशान् सेन्द्रान् इन्दुतुल्याननः प्रभुः
भयस्य यो वरो दत्तो मया मतिमतां वराः तस्यान्त एष सम्प्राप्तो यः पुरोक्तो मया सुराः
तच्च तेषामधिष्ठानं त्रिपुरं त्रिदशर्षभाः एकेषुपातमोक्षेण हन्तव्यं नेषुवृष्टिभिः
भवतां च न पश्यामि कमप्यत्र सुरर्षभाः यस्तु चैकप्रहारेण पुरं हन्यात् सदानवम्
त्रिपुरं नाल्पवीर्येण शक्यं हन्तुं शरेण तु एकं मुक्त्वा महादेवं महेशानं प्रजापतिम्
ते यूयं यदि अन्ये च क्रतुविध्वंसकं हरम् याचामः सहिता देवं त्रिपुरं स हनिष्यति