चतस्रः प्रमदास्तत्र त्रयो मर्त्या भयावहाः कोपानलादीप्तमुखाः प्रविष्टास् त्रिपुरार्दिनः
प्रविश्य रुषितास्ते च पुराण्यतुलविक्रमाः प्रविष्टाः स्म शरीराणि भूत्वा बहुशरीरिणः
नगरं त्रिपुरं चेदं तमसा समवस्थितम् सगृहं सह युष्माभिः सागराम्भसि मज्जितम्
उलूकं रुचिरा नारी नग्नारूढा खरं तथा सह स्त्रीभिर्हसन्ती च चुम्बने प्रमदा यथा पुरुषः सिन्दुतिलकश् चतुरङ्घ्रिस् त्रिलोचनः
येन सा प्रमदा नुन्ना अहं चैव विबोधितः ईदृशी प्रमदा दृष्टा मया चातिभयावहा
एष ईदृशकः स्वप्नो दृष्टो वै दितिनन्दनाः दृष्टः कथं हि कष्टाय असुराणां भविष्यति
यदि वो ऽहं क्षमो राजा यदिदं वेत्थ चेद्धितम् निबोधध्वं सुमनसो न चासूयितुम् अर्हथ
कामं चेर्ष्यां च कोपं च असूयां संविहाय च सत्ये दमे च धर्मे च मुनिवादे च तिष्ठत
शान्तयश्च प्रयुज्यन्तां पूज्यतां च महेश्वरः यदि नामास्य स्वप्नस्य ह्य् एवं चोपरमो भवेत्
कुप्यते नो ध्रुवं रुद्रो देवदेवस्त्रिलोचनः भविष्याणि च दृश्यन्ते यतो नस्त्रिपुरे ऽसुराः
कलहं वर्जयन्तश्च अर्जयन्तस् तथार्जवम् स्वप्नोदयं प्रतीक्षध्वं कालोदयमथापि च
श्रुत्वा दाक्षायणीपुत्रा इत्येवं मयभाषितम् क्रोधेर्ष्यावस्थया युक्ता दृश्यन्ते च विनाशगाः
विनाशम् उपपश्यन्तो ह्य् अलक्ष्म्या व्यापितासुराः तत्रैव दृष्ट्वा ते ऽन्योन्यं सक्रोधापूरितेक्षणाः
अथ दैवपरिध्वस्ता दानवास्त्रिपुरालयाः हित्वा सत्यं च धर्मं च अकार्याण्युपचक्रमुः
द्विषन्ति ब्राह्मणान्पुण्यान् न चार्चन्ति हि देवताः गुरुं चैव न मन्यन्ते ह्य् अन्योन्यं चापि चुक्रुधुः
कलहेषु च सज्जन्ते स्वधर्मेषु हसन्ति च परस्परं च निन्दन्ति अहमित्येव वादिनः
उच्चैर्गुरून्प्रभाषन्ते नाभिभाषन्ति पूजिताः अकस्मात्साश्रुनयना जायन्ते च समुत्सुकाः
दधिसक्तून्पयश्चैव कपित्थानि च रात्रिषु भक्षयन्ति च शेरन्त उच्छिष्टाः संवृतास्तथा
मूत्रं कृत्वोपस्पृशन्ति चाकृत्वा पादधावनम् संविशन्ति च शय्यासु शौचाचारविवर्जिताः
संकुचन्ति भयाच्चैव मार्जाराणां यथाखुकः भार्यां गत्वा न शुध्यन्ति रहोवृत्तिषु निस्त्रपाः
पुरा सुशीला भूत्वा च दुःशीलत्वमुपागताः देवांस्तपोधनांश्चैव बाधन्ते त्रिपुरालयाः
मयेन वार्यमाणा अपि ते विनाशमुपस्थिताः विप्रियाण्येव विप्राणां कुर्वाणाः कलहैषिणः
वैभ्राजं नन्दनं चैव तथा चैत्ररथं वनम् अशोकं च वराशोकं सर्वर्तुकमथापि च
स्वर्गं च देवतावासं पूर्वदेववशानुगाः विध्वंसयन्ति संक्रुद्धास् तपोधनवनानि च
विध्वस्तदेवायतनाश्रमं च संभग्नदेवद्विजपूजकं तु जगद्बभूवामरराजदुष्टैर् अभिद्रुतं सस्यमिवालिवृन्दैः
अशीलेषु प्रदुष्टेषु दानवेषु दुरात्मसु लोकेषूत्साद्यमानेषु तपोधनवनेषु च
सिंहनादे व्योमगानां तेषु भीतेषु जन्तुषु त्रैलोक्ये भयसंमूढे तमोन्धन्वम् उपागते
आदित्या वसवः साध्याः पितरो मरुतां गणाः भीताः शरणमाजग्मुर् ब्रह्माणां प्रपितामहम्
ते तं स्वर्णोत्पलासीनं ब्रह्माणं समुपागताः नेमुरूचुश्च सहिताः पञ्चास्यं चतुराननम्
वरगुप्तास्तवैवेह दानवास्त्रिपुरालयाः बाधन्ते ऽस्मान्यथा प्रेष्यान् अनुशाधि ततो ऽनघ