यो यं प्रार्थयते कामं सम्प्राप्तस्त्रिपुराश्रयात् तस्य तस्य मयस्तत्र मायया विदधाति सः
सचन्द्रेषु प्रदोषेषु साम्बुजेषु सरःसु च आरामेषु सचूतेषु तपोधनवनेषु च
स्वङ्गाश्चन्दनदिग्धाङ्गां मातंगाः समदा इव मृष्टाभरणवस्त्राश्च मृष्टस्रगनुलेपनाः
प्रियाभिः प्रियक्रामाभिर् हावभावप्रसूतिभिः नारीभिः सततं रेमुर् मुदिताश्चैव दानवाः
मयेन निर्मिते स्थाने मोदमाना महासुराः अर्थे धर्मे च कामे च निदधुस्ते मतीः स्वयम्
तेषां त्रिपुरयुक्तानां त्रिपुरे त्रिदशारिणाम् व्रजति स्म सुखं कालः स्वर्गस्थानां यथा तथा
शुश्रूषन्ते पितॄन्पुत्राः पत्न्यश्चापि पतींस्तथा विमुक्तकलहाश्चापि प्रीतयः प्रचुराभवन्
नाधर्मस्त्रिपुरस्थानां बाधते वीर्यवानपि अर्चयन्तो दितेः पुत्रास् त्रिपुरायतने हरम्
पुण्याहशब्दानुच्चेरुर् आशीर्वादांश्च वेदगान् स्वनूपुररवोन्मिश्रान् वेणुवीणारवानपि
हासश्च वरनारीणां चित्तव्याकुलकारकः त्रिपुरे दानवेन्द्राणां रमतां श्रूयते सदा
तेषामर्चयतां देवान् ब्राह्मणांश्च नमस्यताम् धर्मार्थकाममन्त्राणां महान्कालो ऽभ्यवर्तत
अथालक्ष्मीरसूया च तृड्बुभुक्षे तथैव च कलिश्च कलहश्चैव त्रिपुरं विविशुः सह
संध्याकालं प्रविष्टास्ते त्रिपुरं च भयावहाः समध्यासुः समं घोराः शरीराणि यथामयाः
सर्व एते विशन्तस्तु मयेन त्रिपुरान्तरम् स्वप्ने भयावहा दृष्टा आविशन्तस्तु दानवान्
उदिते च सहस्रांशौ शुभभासाकरे रवौ मयः सभामाविवेश भास्कराभ्यामिवाम्बुदः
मेरुकूटनिभे रम्य आसने स्वर्णमण्डिते आसीनाः काञ्चनगिरेः शृङ्गे तोयमुचो यथा
पार्श्वयोस्तारकाख्यश्च विद्युन्माली च दानवः उपविष्टौ मयस्यान्ते हस्तिनः कलभाविव
ततः सुरारयः सर्वे ऽशेषकोपा रणाजिरे उपविष्टा दृढं विद्धा दानवा देवशत्रवः
तेष्वासीनेषु सर्वेषु सुखासनगतेषु च मयो मायाविजनक इत्युवाच स दानवान्
खेचराः खेचरारावा भो भो दाक्षायणीसुताः निशामयध्वं स्वप्नो ऽयं मया दृष्टो भयावहः
चतस्रः प्रमदास्तत्र त्रयो मर्त्या भयावहाः कोपानलादीप्तमुखाः प्रविष्टास् त्रिपुरार्दिनः
प्रविश्य रुषितास्ते च पुराण्यतुलविक्रमाः प्रविष्टाः स्म शरीराणि भूत्वा बहुशरीरिणः
नगरं त्रिपुरं चेदं तमसा समवस्थितम् सगृहं सह युष्माभिः सागराम्भसि मज्जितम्
उलूकं रुचिरा नारी नग्नारूढा खरं तथा सह स्त्रीभिर्हसन्ती च चुम्बने प्रमदा यथा पुरुषः सिन्दुतिलकश् चतुरङ्घ्रिस् त्रिलोचनः
येन सा प्रमदा नुन्ना अहं चैव विबोधितः ईदृशी प्रमदा दृष्टा मया चातिभयावहा
एष ईदृशकः स्वप्नो दृष्टो वै दितिनन्दनाः दृष्टः कथं हि कष्टाय असुराणां भविष्यति
यदि वो ऽहं क्षमो राजा यदिदं वेत्थ चेद्धितम् निबोधध्वं सुमनसो न चासूयितुम् अर्हथ
कामं चेर्ष्यां च कोपं च असूयां संविहाय च सत्ये दमे च धर्मे च मुनिवादे च तिष्ठत
शान्तयश्च प्रयुज्यन्तां पूज्यतां च महेश्वरः यदि नामास्य स्वप्नस्य ह्य् एवं चोपरमो भवेत्
कुप्यते नो ध्रुवं रुद्रो देवदेवस्त्रिलोचनः भविष्याणि च दृश्यन्ते यतो नस्त्रिपुरे ऽसुराः