इदमन्तःपुरस्थानं रुद्रायतनमत्र च सवटानि तडागानि ह्य् अत्र वाप्यः सरांसि च
आरामाश्च सभाश्चात्र उद्यानान्यत्र वा तथा उपनिर्गमो दानवानां भवत्यत्र मनोहरः
इत्येवं मानसं तत्राकल्पयत्पुरकल्पवित् मयेन तत्पुरं सृष्टं त्रिपुरं त्विति नः श्रुतम्
कार्ष्णायसमयं यत्तु मयेन विहितं पुरम् तारकाख्यो ऽधिपस्तत्र कृतस्थानाधिपो ऽवसत्
यत्तु पूर्णेन्दुसंकाशं राजतं निर्मितं पुरम् विद्युन्माली प्रभुस्तत्र विद्युन्माली त्विवाम्बुदः
सुवर्णाधिकृतं यच्च मयेन विहितं पुरम् स्वयमेव मयस्तत्र गतस्तदधिपः प्रभुः
तारकस्य पुरं तत्र शतयोजनमन्तरम् विद्युन्मालिपुरं चापि शतयोजनके ऽन्तरे
मेरुपर्वतसंकाशं मयस्यापि पुरं महत् पुष्यसंयोगमात्रेण कालेन स मयः पुरा
कृतवांस्त्रिपुरं दैत्यस् त्रिनेत्रः पुष्पकं यथा येन येन मयो याति प्रकुर्वाणः पुरं पुरात्
प्रशस्तास्तत्र तत्रैव वारुण्यामालयाः स्वयम् रुक्मरूप्यायसानां च शतशो ऽथ सहस्रशः
रत्नाचितानि शोभन्ते पुराण्यमरविद्विषाम् प्रासादशतजुष्टानि कूटागारोत्कटानि च
सर्वेषां कामगानि स्युः सर्वलोकातिगानि च सोद्यानवापीकूपानि सपद्मसरवन्ति च
अशोकवनभूतानि कोकिलारुतवन्ति च चित्रशालाविशालानि चतुःशालोत्तमानि च
सप्ताष्टदशभौमानि सत्कृतानि मयेन च बहुध्वजपताकानि स्रग्दामालंकृतानि च
किङ्किणीजालशब्दानि गन्धवन्ति महान्ति च सुसंयुक्तोपलिप्तानि पुष्पनैवेद्यवन्ति च
यज्ञधूमान्धकाराणि संपूर्णकलशानि च गगनावरणाभानि हंसपङ्क्तिनिभानि च
पङ्क्तीकृतानि राजन्ते गृहाणि त्रिपुरे पुरे मुक्ताकलापैर्लम्बद्भिर् हसन्तीव शशिश्रियम्
मल्लिकाजातिपुष्पाद्यैर् गन्धधूपाधिवासितैः पञ्चेन्द्रियसुखैर्नित्यं समैः सत्पुरुषैरिव
हेमराजतलोहाद्यमणिरत्नाञ्जनाङ्किताः प्राकारास्त्रिपुरे तस्मिन् गिरिप्राकारसंनिभाः
एकैकस्मिन्पुरे तस्मिन् गोपुराणां शतं शतम् सपताकाध्वजवतां दृश्यन्ते गिरिशृङ्गवत्
नूपुरारावरम्याणि त्रिपुरे तत्पुराण्यपि स्वर्गातिरिक्तश्रीकाणि तत्र कन्यापुराणि च
आरामैश्च विहारैश्च तडागवटचत्वरैः सरोभिश्च सरिद्भिश्च वनैश्चोपवनैरपि
दिव्यभोगोपभोगानि नानारत्नयुतानि च पुष्पोत्करैश्च सुभगास् त्रिपुरस्योपनिर्गमाः परिखाशतगम्भीराः कृता मायानिवारणैः
निशम्य तद्दुर्गविधानमुत्तमं कृतं मयेनाद्भुतवीर्यकर्मणा दितेः सुता दैवतराजवैरिणः सहस्रशः प्रापुरनन्तविक्रमाः
तदासुरैर्दर्पितवैरिमर्दनैर् जनार्दनैः शैलकरीन्द्रसंनिभैः बभूव पूर्णं त्रिपुरं तथा पुरा यथाम्बरं भूरिजलैर् जलप्रदैः
निर्मिते त्रिपुरे दुर्गे मयेनासुरशिल्पिना तद्दुर्गं दुर्गतां प्राप बद्धवैरैः सुरासुरैः
सकलत्राः सपुत्राश्च शस्त्रवन्तो ऽन्तकोपमाः मयादिष्टानि विविशुर् गृहाणि हृषिताश्च ते
सिंहा वनमिवानेके मकरा इव सागरम् रोषैश्चैवातिपारुष्यैः शरीरमिव संहतैः
तद्वद्बलिभिरध्यस्तं तत्पुरं देवतारिभिः त्रिपुरं संकुलं जातं दैत्यकोटिशताकुलम्
सुतलादपि निष्पत्य पातालाद्दानवालयात् उपतस्थुः पयोदाभा ये च गिर्युपजीविनः