भूम्यानां जलजानां च शापानां मुनितेजसाम् देवप्रहरणानां च देवानां च प्रजापतेः
अलङ्घनीयं भवतु त्रिपुरं यदि ते प्रियम् विश्वकर्मा इतीवोक्तः स तदा विश्वकर्मणा
उवाच प्रहसन्वाक्यं मयं दैत्यगणाधिपम् सर्वामरत्वं नैवास्ति असद्वृत्तस्य दानव
तस्माद्दुर्गविधानं हि क्षणादपि विधीयताम् पितामहवचः श्रुत्वा तदैवं दानवो मयः
प्राञ्जलिः पुनरप्याह ब्रह्माणं पद्मसम्भवम् यस्तदेकेषुणा दुर्गं सकृन्मुक्तेन निर्दहेत्
समं स संयुगे हन्याद् अवध्यं शेषतो भवेत् एवमस्त्विति चाप्युक्त्वा मयं देवः पितामहः
स्वप्ने लब्धो यथार्थो वै तत्रैवादर्शनं ययौ गते पितामहे दैत्या गता मयरविप्रभाः
वरदानाद्विरेजुस्ते तपसा च महाबलाः स मयस्तु महाबुद्धिर् दानवो वृषसत्तमः
दुर्गं व्यवसितः कर्तुम् इति चाचिन्तयत्तदा कथं नाम भवेद्दुर्गं तन्मया त्रिपुरं कृतम्
वत्स्यते तत्पुरं दिव्यं मत्तो नान्यैर्न संशयः यथाचैकेषुणा तेन तत्पुरं न हि हन्यते
देवैस्तथा विधातव्यं मया मतिविचारणम् विस्तारो योजनशतम् एकैकस्य पुरस्य तु
कार्यस्तेषां च विष्कम्भश् चैकैकशतयोजनम् पुष्ययोगेण निर्माणं पुराणं च भविष्यति
पुष्ययोगेण च दिवि समेष्यन्ति परस्परम् पुष्ययोगेण युक्तानि यस्तान्यासादयिष्यति
पुराण्येकप्रहारेण शतानि निहनिष्यति आयसं तु क्षितितले राजतं तु नभस्तले
राजतस्योपरिष्टात्तु सौवर्णं भविता पुरम् एवं त्रिभिः पुरैर्युक्तं त्रिपुरं तद्भविष्यति शतयोजनविष्कम्भैर् अन्तरैस्तद्दुरासदम्
अट्टालकैर् यन्त्रशतघ्निभिश्च सचक्रशूलोपलकम्पनैश्च द्वारैर्महामन्दरमेरुकल्पैः प्राकारशृङ्गैः सुविराजमानम्
सतारकाख्येन मयेन गुप्तं स्वस्थं च गुप्तं तडिन्मालिनापि को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम्
इति चिन्तायुतो दैत्यो दिव्योपायप्रभावजम् चकार त्रिपुरं दुर्गं मनःसंचारचारितम्
प्राकारो ऽनेन मार्गेण इह वामुत्र गोपुरम् इह चाट्टालकद्वारम् इह चाट्टालगोपुरम्
राजमार्ग इतश्चापि विपुलो भवतामिति रथ्योपरथ्याः सत्त्रिका इह चत्वर एव च
इदमन्तःपुरस्थानं रुद्रायतनमत्र च सवटानि तडागानि ह्य् अत्र वाप्यः सरांसि च
आरामाश्च सभाश्चात्र उद्यानान्यत्र वा तथा उपनिर्गमो दानवानां भवत्यत्र मनोहरः
इत्येवं मानसं तत्राकल्पयत्पुरकल्पवित् मयेन तत्पुरं सृष्टं त्रिपुरं त्विति नः श्रुतम्
कार्ष्णायसमयं यत्तु मयेन विहितं पुरम् तारकाख्यो ऽधिपस्तत्र कृतस्थानाधिपो ऽवसत्
यत्तु पूर्णेन्दुसंकाशं राजतं निर्मितं पुरम् विद्युन्माली प्रभुस्तत्र विद्युन्माली त्विवाम्बुदः
सुवर्णाधिकृतं यच्च मयेन विहितं पुरम् स्वयमेव मयस्तत्र गतस्तदधिपः प्रभुः
तारकस्य पुरं तत्र शतयोजनमन्तरम् विद्युन्मालिपुरं चापि शतयोजनके ऽन्तरे
मेरुपर्वतसंकाशं मयस्यापि पुरं महत् पुष्यसंयोगमात्रेण कालेन स मयः पुरा
कृतवांस्त्रिपुरं दैत्यस् त्रिनेत्रः पुष्पकं यथा येन येन मयो याति प्रकुर्वाणः पुरं पुरात्
प्रशस्तास्तत्र तत्रैव वारुण्यामालयाः स्वयम् रुक्मरूप्यायसानां च शतशो ऽथ सहस्रशः