शनैश्चरात्तथा चोर्ध्वं ज्ञेयं सप्तर्षिमण्डलम् सप्तर्षिभ्यो ध्रुवश्चोर्ध्वं समस्तं त्रिदिवं ध्रुवे
द्विगुणेषु सहस्रेषु योजनानां शतेषु च ग्रहान्तरम् अथैकैकम् ऊर्ध्वं नक्षत्रमण्डलात्
ताराग्रहान्तराणि स्युर् उपर्युपर्यधिष्ठितम् ग्रहाश्च चन्द्रसूर्यौ च दिवि दिव्येन तेजसा
नक्षत्रेषु च युज्यन्ते गच्छन्तो नियतक्रमात् चन्द्रार्कग्रहनक्षत्रा नीचोच्चगृहमाश्रिताः
समागमे च भेदे च पश्यन्ति युगपत्प्रजाः परस्परं स्थिता ह्येवं युज्यन्ते च परस्परम्
असंकरेण विज्ञेयस् तेषां योगस्तु वै बुधैः इत्येवं संनिवेशो वै पृथिव्या ज्योतिषां च यः
द्वीपानामुदधीनां च पर्वतानां तथैव च वर्षाणां च नदीनां च ये च तेषु वसन्ति वै
इत्येषो ऽर्कवशेनैव संनिवेशस्तु ज्योतिषाम् आवर्तः सान्तरो मध्ये संक्षिप्तश्च ध्रुवात्तु स
सर्वतस्तेषु विस्तीर्णो वृत्ताकार इवोच्छ्रितः लोकसंव्यवहारार्थम् ईश्वरेण विनिर्मितः
कल्पादौ बुद्धिपूर्वं तु स्थापितो ऽसौ स्वयम्भुवा इत्येष संनिवेशो वै सर्वस्य ज्योतिरात्मकः
वैश्वरूपं प्रधानस्य परिणाहो ऽस्य यः स्मृतः तेषां शक्यं न संख्यातुं याथातथ्येन केनचित् गतागतं मनुष्येण ज्योतिषां मांसचक्षुषा
कथं जगाम भगवान् पुरारित्वं महेश्वरः ददाह च कथं देवस् तन्नो विस्तरतो वद
पृच्छामस्त्वां वयं सर्वे बहुमानात्पुनः पुनः त्रिपुरं तद्यथा दुर्गं मयमायाविनिर्मितम् देवेनैकेषुणा दग्धं तथा नो वद मानद
शृणुध्वं त्रिपुरं देवो यथा दारितवान् भवः मयो नाम महामायो मायानां जनको ऽसुरः
निर्जितः स तु संग्रामे तताप परमं तपः तपस्यन्तं तु तं विप्रा दैत्यावन्यावनुग्रहात्
तस्यैव कृत्यमुद्दिश्य तेपतुः परमं तपः विद्युन्माली च बलवांस् तारकाख्यश्च वीर्यवान्
मयतेजःसमाक्रान्तौ तेपतुर्मयपार्श्वगौ लोका इव यथा मूर्तास् त्रयस् त्रय इवाग्नयः
लोकत्रयं तापयन्तस् ते तेपुर्दानवास्तपः हेमन्ते जलशय्यासु ग्रीष्मे पञ्चतपे तथा
वर्षासु च तथाकाशे क्षपयन्तस्तनूः प्रियाः सेवानाः फलमूलानि पुष्पाणि च जलानि च
अन्यदाचरिताहाराः पङ्केनाचितवल्कलाः मग्नाः शैवालपङ्केषु विमलाविमलेषु च
निर्मांसाश्च ततो जाताः कृशा धमनिसंतताः तेषां तपःप्रभावेन प्रभावविधुतं यथा
निष्प्रभं तु जगत्सर्वं मन्दमेवाभिभाषितम् दह्यमानेषु लोकेषु तैस्त्रिभिर्दानवाग्निभिः
तेषामग्रे जगद्बन्धुः प्रादुर्भूतः पितामहः ततः साहसकर्तारः प्राहुस्ते सहसागतम्
स्वकं पितामहं दैत्यास् तं वै तुष्टुवुरेव च अथ तान्दानवान्ब्रह्मा तपसा तपनप्रभान्
उवाच हर्षपूर्णाक्षो हर्षपूर्णमुखस्तदा वरदो ऽहं हि वो वत्सास् तपस्तोषित आगतः
व्रियताम् ईप्सितं यच्च साभिलाषं तदुच्यताम् इत्येवमुच्यमानास्तु प्रतिपन्नं पितामहम्
विश्वकर्मा मयः प्राह प्रहर्षोत्फुल्ललोचनः देव दैत्याः पुरा देवैः संग्रामे तारकामये
निर्जितास्ताडिताश्चैव हताश्चाप्यायुधैरपि देवैर्वैरानुबन्धाच्च धावन्तो भयवेपिताः
शरणं नैव जानीमः शर्म वा शरणार्थिनः सो ऽहं तपःप्रभावेन तव भक्त्या तथैव च
इच्छामि कर्तुं तद्दुर्गं यद्देवैरपि दुस्तरम् तस्मिंश्च त्रिपुरे दुर्गे मत्कृते कृतिनां वर