स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम् मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै
अभिमानेन तिष्ठन्ति तानि देवाः पुनः पुनः अतीतास्तु सहातीतैर् भाव्या भाव्यैः सुरैः सह
वर्तन्ते वर्तमानैश्च सुरैः सार्धं तु स्थानिनः सूर्यो देवो विवस्वांश्च अष्टमस्त्वदितेः सुतः
द्युतिमान्धर्मयुक्तश्च सोमो देवो वसुः स्मृतः शुक्रो दैत्यस्तु विज्ञेयो भार्गवो ऽसुरयाजकः
बृहस्पतिर् बृहत्तेजा देवाचार्यो ऽङ्गिरःसुतः बुधो मनोहरश्चैव शशिपुत्रस्तु स स्मृतः
शनैश्चरो विरूपश्च संज्ञापुत्रो विवस्वतः अग्निर्विकेश्यां जज्ञे तु युवासौ लोहिताधिपः
नक्षत्रनाम्न्यः क्षेत्रेषु दाक्षायण्यः सुताः स्मृताः स्वर्भानुः सिंहिकापुत्रो भूतसंसाधनो ऽसुरः
चन्द्रार्कग्रहनक्षत्रेष्व् अभिमानी प्रकीर्तितः स्थानान्येतानि चोक्तानि स्थानिन्यश्चैव देवताः
शुक्लमग्निसमं दिव्यं सहस्रांशोर्विवस्वतः सहस्रांशुत्विषः स्थानम् अम्मयं तैजसं तथा
आशास्थानं मनोज्ञस्य रविरश्मिगृहे स्थितम् शुक्रः षोडशरश्मिस्तु यस्तु देवो ह्यपोमयः
लोहितो नवरश्मिस्तु स्थानमाप्यं तु तस्य वै बृहद्द्वादशरश्मीकं हरिद्राभं तु वेधसः
अष्टरश्मिशनेस्तत्तु कृष्णं वृद्धमयस्मयम् स्वर्भानोस्त्वायसं स्थानं भूतसंतापनालयम्
सुकृताम् आश्रयास्तारा रश्मयस्तु हिरण्मयाः तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः मण्डलं त्रिगुणं चास्य विस्तारो भास्करस्य तु
द्विगुणः सूर्यविस्ताराद् विस्तारः शशिनः स्मृतः त्रिगुणं मण्डलं चास्य वैपुल्याच्छशिनः स्मृतम्
सर्वोपरि निसृष्टानि मण्डलानि तु तारकाः योजनार्धप्रमाणानि ताभ्यो ऽन्यानि गणानि तु
तुल्यो भूत्वा तु स्वर्भानुस् तदधस्तात्प्रसर्पति उद्धूत्य पार्थिवीं छायां निर्मितां मण्डलाकृतिम्
ब्रह्मणा निर्मितं स्थानं तृतीयं तु तमोमयम् आदित्यात्स तु निष्क्रम्य सोमं गच्छति पर्वसु
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु स्वभासा तुदते यस्मात् स्वर्भानुरिति स स्मृतः
चन्द्रतः षोडशो भागो भार्गवस्य विधीयते विष्कम्भान्मण्डलाच्चैव योजनानां तु स स्मृतः
भार्गवात्पादहीनश्च विज्ञेयो वै बृहस्पतिः बृहस्पतेः पादहीनौ केतुवक्रावुभौ स्मृतौ
विस्तारमण्डलाभ्यां तु पादहीनस्तयोर्बुधः तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै
बुधेन समरूपाणि विस्तारान्मण्डलात्तु वै तारानक्षत्ररूपाणि हीनानि तु परस्परम्
शतानि पञ्च चत्वारि त्रीणि द्वे चैकमेव च सर्वोपरि निसृष्टानि मण्डलानि तु तारकाः
योजनार्धप्रमाणानि तेभ्यो ह्रस्वं न विद्यते उपरिष्टात्तु ये तेषां ग्रहा ये क्रूरसात्त्विकाः
सौरश्चाङ्गिरसो वक्रो विज्ञेया मन्दचारिणः तेभ्यो ऽधस्तात्तु चत्वारः पुनश्चान्ये महाग्रहाः
सोमः सूर्यो बुधश्चैव भार्गवश्चेति शीघ्रगाः यावन्ति चैव ऋक्षाणि कोट्यस्तावन्ति तारकाः
सर्वेषां तु ग्रहाणां वै सूर्यो ऽधस्तात्प्रसर्पति विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी
नक्षत्रमण्डलं चापि सोमादूर्ध्वं प्रसर्पति नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधाच्चोर्ध्वं तु भार्गवः
वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः तस्माच्छनैश्चरश्चोर्ध्वं देवाचार्योपरि स्थितः