तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् अस्तं गते पुनः सूर्ये अहर्वै प्रविशत्य् अपः
तस्मान्नक्तं पुनः शुक्ला ह्य् आपो दृश्यन्ति भासुराः एतेन क्रमयोगेण भूम्यर्धे दक्षिणोत्तरे
उदयास्तमये ह्यत्र अहोरात्रं विशत्य् अपः यश्चासौ तपते सूर्यः सो ऽपः पिबति रश्मिभिः
सहस्रपादस्त्वेषो ऽग्नी रक्तकुम्भनिभस्तु सः आदत्ते स तु नाडीनां सहस्रेण समन्ततः
अपो नदीसमुद्रेभ्यो ह्रदकूपेभ्य एव च तस्य रश्मिसहस्रेण शीतवर्षोष्णनिःस्रवः
तासां चतुःशतं नाड्यो वर्षन्ते चित्रमूर्तयः चन्दनाश्चैव मेध्याश्च केतनाश् चेतनास्तथा
अमृता जीवनाः सर्वा रश्मयो वृष्टिसर्जनाः हिमोद्भवाश्च ते ऽन्योन्यं रश्मयस्त्रिंशतः स्मृताः चन्द्रताराग्रहैः सर्वैः पीता भानोर्गभस्तयः
एता मध्यास्तथान्याश्च ह्लादिन्यो हिमसर्जनाः शुक्लाश्च ककुभश्चैव गावो विश्वसृतश्च याः
शुक्लास्ता नामतः सर्वास् त्रिंशतो घर्मसर्जनाः संबिभ्रति हि ताः सर्वा मनुष्यान्देवताः पितॄन्
मनुष्यानोषधीभिश्च स्वधया च पितॄनपि अमृतेन सुरान्सर्वान् संततं परितर्पयन्
वसन्ते चैव ग्रीष्मे च शनैः संतपते त्रिभिः वर्षासु च शरद्येवं चतुर्भिः संप्रवर्षति
हेमन्ते शिशिरे चैव हिमोत्सर्गस् त्रिभिः पुनः ओषधीषु बलं धत्ते सुधां च स्वधया पुनः
सूर्यो ऽमरत्वममृते त्रयस् त्रिषु नियच्छति एवं रश्मिसहस्रं तु सौरं लोकार्थसाधकम्
भिद्यते ऋतुमासाद्य सहस्रं बहुधा पुनः इत्येवं मण्डलं शुक्लं भास्वरं लोकसंज्ञितम्
नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरेव च चन्द्र ऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसम्भवाः
सुषुम्ना सूर्यरश्मिर्या क्षीणं शशिनमेधते हरिकेशः पुरस्तात्तु यो वै नक्षत्रयोनिकृत्
दक्षिणे विश्वकर्मा तु रश्मिराप्याययद्बुधम् विश्वावसुश्च यः पश्चाच् छुक्रयोनिश्च स स्मृतः
संवर्धनस्तु यो रश्मिः स योनिर्लोहितस्य च षष्ठस्तु ह्यश्वभू रश्मिर् योनिः स हि बृहस्पतेः
शनैश्चरं पुनश्चापि रश्मिराप्यायते सुराट् न क्षीयते यतस्तानि तस्मान्नक्षत्रता स्मृता
क्षेत्राण्येतानि वै सूर्यम् आपतन्ति गभस्तिभिः क्षेत्राणि तेषामादत्ते सूर्यो नक्षत्रता ततः
अस्माल्लोकादमुं लोकं तीर्णानां सुकृतात्मनाम् तारणात्तारका ह्येताः शुक्लत्वाच्चैव शुक्लिकाः
दिव्यानां पार्थिवानां च वंशानां चैव सर्वशः तपनस्तेजसो योगाद् आदित्य इति गद्यते
स्रवतिः स्यन्दनार्थे च धातुरेष निगद्यते स्रवणात्तेजसश्चैव तेनासौ सविता स्मृतः
बह्वर्थश्चन्द इत्येष प्रधानो धातुरुच्यते शुक्लत्वे ह्यमृतत्वे च शीतत्वे ह्लादने ऽपि च
सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे जलतेजोमये शुक्ले वृत्तकुम्भनिभे शुभे
वसन्ति कर्मदेवास्तु स्थानान्येतानि सर्वशः मन्वन्तरेषु सर्वेषु ऋषिसूर्यग्रहादयः
तानि देवगृहाणि स्युः स्थानाख्यानि भवन्ति हि सौरं सूर्यो ऽविशत्स्थानं सौम्यं सोमस्तथैव च
शौक्रं शुक्रो ऽविशत्स्थानं षोडशारं प्रभास्वरम् बृहस्पतिर्बृहत्त्वं च लोहितं चापि लोहितः
शनैश्चरो ऽविशत्स्थानम् एवं शानैश्चरं तथा बुधो ऽपि वै बुधस्थानं भानुं स्वर्भानुरेव च
नक्षत्राणि च सर्वाणि नाक्षत्राण्याविशन्ति च ज्योतींषि सुकृताम् एते ज्ञेया देवगृहास्तु वै