खनन्तः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे असमञ्जसस्तु तनयो यो ऽंशुमान्नाम विश्रुतः
तस्य पुत्रो दिलीपस् तु दिलीपात्तु भगीरथः येन भागीरथी गङ्गा तपः कृत्वावतारिता
भगीरथस्य तनयो नाभाग इति विश्रुतः नाभागस्याम्बरीषो ऽभूत् सिन्धुद्वीपस् ततो ऽभवत्
तस्यायुतायुः पुत्रो ऽभूद् ऋतुपर्णस्ततो ऽभवत् तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः
तस्यानरण्यः पुत्रो ऽभून् निघ्नस्तस्य सुतो ऽभवत् निघ्नपुत्राव् उभौ जाताव् अनमित्ररघू नृपौ
अनामित्रो वनमगाद् भविता स कृते नृपः रघोर् अभूद्दिलीपस्तु दिलीपादजकस्तथा
दीर्घबाहुरजाज्जातश् चाजपालस्ततो नृपः तस्माद्दशरथो जातस् तस्य पुत्रचतुष्टयम्
नारायणात्मकाः सर्वे रामस्तेष्वग्रजो ऽभवत् रावणान्तकरस्तद्वद् रघूणां वंशवर्धनः
वाल्मीकिस्तस्य चरितं चक्रे भार्गवसत्तमः तस्य पुत्रौ कुशलवाव् इक्ष्वाकुकुलवर्धनौ
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः नलस्तु नैषधस्तस्मान् नभास्तस्मादजायत
नभसः पुण्डरीको ऽभूत् क्षेमधन्वा ततः स्मृतः तस्य पुत्रो ऽभवद्वीरो देवानीकः प्रतापवान्
अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः ततश्चन्द्रावलोकस्तु तारापीडस्ततो ऽभवत्
तस्यात्मजश् चन्द्रगिरिर् भानुश् चन्द्रस्ततो ऽभवत् श्रुतायुर् अभवत्तस्माद् भारते यो निपातितः
नलौ द्वाव् एव विख्यातौ वंशे कश्यपसम्भवे वीरसेनसुतस्तद्वन् नैषधश्च नराधिपः
एते वैवस्वते वंशे राजानो भूरिदक्षिणाः इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः
भगवञ्श्रोतुमिच्छामि पितॄणां वंशमुत्तमम् रवेश्च श्राद्धदेवत्वं सोमस्य च विशेषतः
हन्त ते कथयिष्यामि पितॄणां वंशमुत्तमम् स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्तयः
मूर्तिमन्तो ऽथ चत्वारः सर्वेषाममितौजसः अमूर्तयः पितृगणा वैराजस्य प्रजापतेः
जयन्ति यान्देवगणा वैराजा इति विश्रुताः ये चैते योगविभ्रष्टाः प्राप्य लोकान्सनातनान्
पुनर्ब्रह्मदिनान्ते तु जायन्ते ब्रह्मवादिनः सम्प्राप्य तां स्मृतिं भूयो योगं सांख्यमनुत्तमम्
सिद्धिं प्रयान्ति योगेन पुनरावृत्तिदुर्लभाम् योगिनामेव देयानि तस्माच्छ्राद्धानि दातृभिः
एतेषां मानसी कन्या पत्नी हिमवतो मता मैनाकस्तस्य दायादः क्रौञ्चस्तस्याग्रजो ऽभवत् क्रौञ्चद्वीपः स्मृतो येन चतुर्थो घृतसंवृतः
मेना च सुषुवे तिस्रः कन्या योगवतीस्ततः उमैकपर्णापर्णा च तीव्रव्रतपरायणाः
रुद्रस्यैका सितस्यैका जैगीषव्यस्य चापरा दत्ता हिमवता बालाः सर्वा लोके तपो ऽधिकाः
कस्माद्दाक्षायणी पूर्वं ददाहात्मानमात्मना हिमवद्दुहिता तद्वत् कथं जाता महीतले
संहरन्ती किमुक्तासौ सुता वा ब्रह्मसूनुना दक्षेण लोकजननी सूत विस्तरतो वद
दक्षस्य यज्ञे वितते प्रभूतवरदक्षिणे समाहूतेषु देवेषु प्रोवाच पितरं सती
किमर्थं तात भर्ता मे यज्ञे ऽस्मिन्नाभिमन्त्रितः अयोग्य इति तामाह दक्षो यज्ञेषु शूलभृत्
उपसंहारकृद्रुद्रस् तेनामङ्गलभागयम् चुकोपाथ सती देहं त्यक्ष्यामीति त्वदुद्भवम्
दशानां त्वं च भविता पितॄणामेकपुत्रकः क्षत्रियत्वे ऽश्वमेधे च रुद्रात्त्वं नाशमेष्यसि