उत्तानपादस्तस्याथ विज्ञेयः सोत्तरो हनुः यज्ञो ऽधरस्तु विज्ञेयो धर्मो मूर्धानमाश्रितः
हृदि नारायणः साध्या अश्विनौ पूर्वपादयोः वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी
शिश्ने संवत्सरो ज्ञेयो मित्रश्चापानमाश्रितः पुच्छे ऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः
एष तारामयः स्तम्भो नास्तमेति न वोदयम् नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह
तन्मुखाभिमुखाः सर्वे चक्रभूता दिवि स्थिताः ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम्
परियान्ति सुरश्रेष्ठं मेढीभूतं ध्रुवं दिवि आग्नीध्रकाश्यपानां तु तेषां स परमो ध्रुवः
एक एव भ्रमत्येष मेरोरन्तरमूर्धनि ज्योतिषां चक्रमादाय आकर्षंस्तमधोमुखः मेरुमालोकयन्नेव प्रतियाति प्रदक्षिणम्
यदेतद्भवता प्रोक्तं श्रुतं सर्वमशेषतः कथं देवगृहाणि स्युः पुनर्ज्योतींषि वर्णय
एतत्सर्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम् यथा देवगृहाणि स्युः सूर्याचन्द्रमसोस्तथा
अग्नेर्व्युष्टौ रजन्यां वै ब्रह्मणाव्यक्तयोनिना अव्याकृतमिदं त्वासीन् नैशेन तमसा वृतम्
चतुर्भूतावशिष्टे ऽस्मिन् ब्रह्मणा समधिष्ठिते स्वयम्भूर् भगवांस्तत्र लोकतत्त्वार्थसाधकः
खद्योतरूपी विचरन्न् आविर्भावं व्यचिन्तयत् ज्ञात्वाग्निं कल्पकालादाव् अपः पृथ्वीं च संश्रिता
स संभृत्य प्रकाशार्थं त्रिधा तुल्यो ऽभवत्पुनः पाचको यस्तु लोके ऽस्मिन् पार्थिवः सो ऽग्निरुच्यते
यश्चासौ तपते सूर्ये शुचिरग्निश्च स स्मृतः वैद्युतो जाठरः सौम्यो वैद्युतश्चाप्यबिन्धनः
तेजोभिश्चाप्यते कश्चित् कश्चिदेवाप्यनिन्धनः काष्ठेन्धनस्तु निर्मथ्यः सो ऽद्भिः शाम्यति पावकः
अर्चिष्मान्पचनो ऽग्निस्तु निष्प्रभः सौम्यलक्षणः यश्चासौ मण्डले शुक्ले निरूष्मा न प्रकाशते
प्रभा सौरी तु पादेन अस्तं याति दिवाकरे अग्निमाविशते रात्रौ तस्मादग्निः प्रकाशते
उदिते तु पुनः सूर्ये ऊष्माग्नेस्तु समाविशत् पादेन तेजसश्चाग्नेस् तस्मात् संतपते दिवा
प्राकाश्यं च तथौष्ण्यं च सौर्याग्नेये तु तेजसी परस्परानुप्रवेशाद् आप्यायेते दिवानिशम्
उत्तरे चैव भूम्यर्धे तथा ह्यस्मिंस्तु दक्षिणे उत्तिष्ठति पुनः सूर्ये रात्रिराविशते ह्य् अपः
तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् अस्तं गते पुनः सूर्ये अहर्वै प्रविशत्य् अपः
तस्मान्नक्तं पुनः शुक्ला ह्य् आपो दृश्यन्ति भासुराः एतेन क्रमयोगेण भूम्यर्धे दक्षिणोत्तरे
उदयास्तमये ह्यत्र अहोरात्रं विशत्य् अपः यश्चासौ तपते सूर्यः सो ऽपः पिबति रश्मिभिः
सहस्रपादस्त्वेषो ऽग्नी रक्तकुम्भनिभस्तु सः आदत्ते स तु नाडीनां सहस्रेण समन्ततः
अपो नदीसमुद्रेभ्यो ह्रदकूपेभ्य एव च तस्य रश्मिसहस्रेण शीतवर्षोष्णनिःस्रवः
तासां चतुःशतं नाड्यो वर्षन्ते चित्रमूर्तयः चन्दनाश्चैव मेध्याश्च केतनाश् चेतनास्तथा
अमृता जीवनाः सर्वा रश्मयो वृष्टिसर्जनाः हिमोद्भवाश्च ते ऽन्योन्यं रश्मयस्त्रिंशतः स्मृताः चन्द्रताराग्रहैः सर्वैः पीता भानोर्गभस्तयः
एता मध्यास्तथान्याश्च ह्लादिन्यो हिमसर्जनाः शुक्लाश्च ककुभश्चैव गावो विश्वसृतश्च याः
शुक्लास्ता नामतः सर्वास् त्रिंशतो घर्मसर्जनाः संबिभ्रति हि ताः सर्वा मनुष्यान्देवताः पितॄन्
मनुष्यानोषधीभिश्च स्वधया च पितॄनपि अमृतेन सुरान्सर्वान् संततं परितर्पयन्