क्षीयन्ते च ताः शुक्लाः कृष्णा ह्याप्याययन्ति च एवं दिनक्रमात्पीते देवैश्चापि निशाकरे
पीत्वार्धमासं गच्छन्ति अमावास्यां सुराश्च ते पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम्
ततः पञ्चदशे भागे किंचिच्छेषे निशाकरे ततो ऽपराह्णे पितरो जघन्यदिवसे पुनः
पिबन्ति द्विकलं कालं शिष्टास्तास्तु कलास्तु याः विनिःसृष्टं त्वमावास्यां गभस्तिभ्यस्तदामृतम्
अर्धमाससमाप्तौ तु पीत्वा गच्छन्ति ते ऽमृतम् सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ये स्मृताः
काव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते संवत्सराश्च ये काव्याः पञ्चाब्दा वै द्विजाः स्मृताः
सौम्याः सुतपसो ज्ञेयाः सौम्या बर्हिषदस्तथा अग्निष्वात्तास् त्रयश्चैव पितृसर्गस्थिता द्विजाः
पितृभिः पीयमानायां पञ्चदश्यां तु वै कलाम् यावच्च क्षीयते तस्माद् भागः पञ्चदशस्तु सः
अमावास्यां तथा तस्य अन्तरा पूर्यते परः वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः मृतौ एवं सूर्यनिमित्ते ते क्षयवृद्धी निशाकरे
ताराग्रहाणां वक्ष्यामि स्वर्भानोस्तु रथं पुनः अथ तेजोमयः शुभ्रः सोमपुत्रस्य वै रथः
युक्तो हयैः पिशङ्गस्तु दशभिर् वातरंहसैः श्वेतः पिशङ्गः सारङ्गो नीलः श्यामो विलोहितः
श्वेतश्च हरितश्चैव पृषतो वृष्णिरेव च दशभिस्तु महाभागैर् उत्तमैर्वातसम्भवैः
ततो भौमरथश्चापि अष्टाङ्गः काञ्चनः स्मृतः अष्टभिर् लोहितैरश्वैः सध्वजैर् अग्निसम्भवैः सर्पते ऽसौ कुमारो वै ऋजुवक्रानुवक्रगः
अतश्चाङ्गिरसो विद्वान् देवाचार्यो बृहस्पतिः गौराश्वेन तु रौक्मेण स्यन्दनेन विसर्पति
युक्तेनाष्टाभिरश्वैश्च ध्वजैरग्निसमुद्भवैः अब्दं वसति यो राशौ स्वदिशं तेन गच्छति
युक्तेनाष्टाभिर् अश्वैश्च सध्वजैरग्निसंनिभैः रथेन क्षिप्रवेगेण भार्गवस्तेन गच्छति
ततः शनैश्चरो ऽप्यश्वैः सबलैर् वातरंहसैः कार्ष्णायसं समारुह्य स्यन्दनं यात्यसौ शनिः
स्वर्भानोस्तु यथाष्टाश्वाः कृष्णा वै वातरंहसः रथं तमोमयं तस्य वहन्ति स्म सुदंशिताः
आदित्यनिलयो राहुः सोमं गच्छति पर्वसु आदित्यमेति सोमाच्च तमसो ऽन्तेषु पर्वसु
ततः केतुमतस्त्वश्वा अष्टौ ते वातरंहसः पलालधूमवर्णाभाः क्षामदेहाः सुदारुणाः
एते वाहा ग्रहाणां वै मया प्रोक्ता रथैः सह सर्वे ध्रुवे निबद्धास्ते निबद्धा वातरश्मिभिः
एते वै भ्राम्यमाणास्ते यथायोगं वहन्ति वै वाय याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः
परिभ्रमन्ति तद्बद्धाश् चन्द्रसूर्यग्रहा दिवि यावत्तमनुपर्येति ध्रुवं च ज्योतिषां गणः
यथा नद्युदके नोस्तु उदकेन सहोह्यते तथा देवगृहाणि स्युर् उह्यन्ते वातरंहसा तस्माद्यानि प्रगृह्यन्ते व्योम्नि देवगृहा इति
यावत्यश्चैव ताराः स्युस् तावन्तो ऽस्य मरीचयः सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्यो भ्रामयन्ति च
तैलपीडं यथा चक्रं भ्रमते भ्रामयन्ति वै तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः
अलातचक्रवद्यान्ति वातचक्रेरितानि तु यस्मात्प्रवहते तानि प्रवहस्तेन स स्मृतः
एवं ध्रुवे नियुक्तो ऽसौ भ्रमते ज्योतिषां गणः एष तारामयः प्रोक्तः शिशुमारे ध्रुवो दिवि
यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुञ्चति शिशुमारशरीरस्था यावत्यस्तारकास्तु ताः
वर्षाणि दृष्ट्वा जीवेत तावदेवाधिकानि तु शिशुमाराकृतिं ज्ञात्वा प्रविभागेन सर्वशः