ग्रीष्मे हिमे च वर्षासु मुञ्चमाना यथाक्रमम् धर्मं हिमं च वर्षं च यथाक्रममहर्निशम्
गच्छत्यसावनुदिनं परिवृत्य रश्मीन् देवान्पितॄंश्च मनुजांश्च सुतर्पयन्वै शुक्ले च कृष्णे तदहःक्रमेण कालक्षये चैव सुराः पिबन्ति
मासेन तच्चामृतमस्य मृष्टं सुवृष्टये रश्मिषु रक्षितं तु सर्वे ऽमृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः
सूर्येण गोभिर्हि विवर्धिताभिर् अद्भिः पुनश्चैव समुच्छ्रिताभिः वृष्ट्याभिवृष्टाभिर् अथौषधीभिर् मर्त्या अथान्नेन क्षुधं जयन्ति
तृप्तिश्च तेनार्धमासं सुराणां मासं सुधाभिः स्वधया पितॄणाम् अन्नेन जीवन्त्यनिशं मनुष्याः सूर्यः श्रितं तद्धि बिभर्ति गोभिः
इत्येष एकचक्रेण सूर्यस्तूर्णं प्रसर्पति तत्र तैरक्रमैरश्वैः सर्पते ऽसौ दिनक्षये
हरिर् हरिद्भिर् ह्रियते तुरंगमैः पिबत्यथापो हरिभिः सहस्रधा पुनः प्रमुञ्चत्यथ ताश्च यो हरिः स मुह्यमानो हरिभिस्तुरंगमैः
अहोरात्रं रथेनासाव् एकचक्रेण वै भ्रमन् सप्तद्वीपसमुद्रांश्च सप्तभिः सप्तभिर्द्रुतम्
छन्दोरूपैश्च तैरश्वैर् युतश्चक्रं ततः स्थितिः कामरूपैः सकृद्युक्तैः कामगैस्तैर्मनोजवैः
हरितैरव्यथैः पिङ्गैर् ईश्वरैर् ब्रह्मवादिभिः बाह्यतो ऽनन्तरं चैव मण्डलं दिवसक्रमात्
कल्पादौ सम्प्रयुक्ताश्च वहन्त्याभूतसंप्लवम् आवृतो वालखिल्यैश्च भ्रमते रात्र्यहानि तु
ग्रथितैः स्ववचोभिश्च स्तूयमानो महर्षिभिः सेव्यते गीतनृत्यैश्च गन्धर्वाप्सरसां गणैः
पतंगैः पतगैरश्वैर् भ्राम्यमाणो दिवस्पतिः वीथ्याश्रयाणि चरति नक्षत्राणि तथा शशी
ह्रासवृद्धी तथैवास्य रश्मयः सूर्यवत्स्मृताः त्रिचक्रोभयतो ऽश्वश्च विज्ञेयः शशिनो रथः
अपां गर्भसमुत्पन्नो रथः साश्वः ससारथिः सहारैस्तैस्त्रिभिश्चक्रैर् युक्तः शुक्लैर्हयोत्तमैः
दशभिस्तुरगैर्दिव्यैर् असङ्गैस् तन्मनोजवैः सकृद्युक्ते रथे तस्मिन् वहन्तस्त्वायुगक्षयम्
संगृहीता रथे तस्मिञ् छ्वेतश्चक्षुःश्रवाश्च वै अश्वास्तमेकवर्णास्ते वहन्ते शङ्खवर्चसः
अजश्च त्रिपथश्चैव वृषो वाजी नरो हयः अंशुमान् सप्तधातुश्च हंसो व्योममृगस्तथा
इत्येते नामभिश्चैव दश चन्द्रमसो हयाः एवं चन्द्रमसं देवं वहन्ति स्मायुगक्षयम्
देवैः परिवृतः सोमः पितृभिः सह गच्छति सोमस्य शुक्लपक्षादौ भास्करे परतः स्थिते
आपूर्यते परो भागः सोमस्य तु अहःक्रमात् ततः पीतक्षयं सोमं युपगद्व्यापयन् रविः
पीतं पञ्चदशाहं च रश्मिनैकेन भास्करः आपूरयन्ददौ तेन भागं भागमहःक्रमात्
सुषुम्नाप्ययमानस्य शुक्ले वर्धन्ति वै कलाः तस्माद्ध्रसन्ति वै कृष्णे शुक्ले ह्याप्याययन्ति च
इत्येवं सूर्यवीर्येण चन्द्रस्याप्यायते तनुः पौर्णमास्यां प्रदृश्येत शुक्लः सम्पूर्णमण्डलः
एवमाप्यायते सोमः शुक्लपक्षेष्वहःक्रमात् ततो द्वितीयाप्रभृति बहुलस्य चतुर्दशी
अपां सारमयस्येन्दो रसमात्रात्मकस्य च पिबन्त्यम्बुमयं देवा मधु सौम्यं तथामृतम्
संभृतं त्वर्धमासेन अमृतं सूर्यतेजसा भक्षार्थमागतं सोमं पौर्णमास्यामुपासते
एकरात्रं सुराः सार्धं पितृभिरृषिभिश्च वै सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य वै
प्रक्षीयते परे ह्यात्मा पीयमानकलाक्रमात् त्रयश्च त्रिंशता सार्धं त्रयस्त्रिंशच्छतानि तु
त्रयस्त्रिंशत्सहस्राणि देवाः सोमं पिबन्ति वै इत्येवं पीयमानस्य कृष्णे वर्धन्ति ताः कलाः