नागश्चैरावतश्चैव विश्रुतश्च धनंजयः सेनजिच्च सुषेणश्च सेनानीर् ग्रामणीस् तथा
चारो वातश्च द्वावेतौ यातुधानावुभौ स्मृतौ वसन्त्येते च वै सूर्ये मासयोश्च त्विषोर्जयोः
हैमन्तिकौ च द्वौ मासौ निवसन्ति दिवाकरे अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च तौ
भुजंगश्च महापद्मः सर्पः कर्कोटकस्तथा चित्रसेनश्च गन्धर्वः पूर्णायुश्चैव गायनौ
अप्सराः पूर्वचित्तिश्च गन्धर्वा ह्युर्वशी च या तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर् ग्रामणीश् च तौ
विद्युत्सूर्यश्च तावुग्रौ यातुधानौ तु तौ स्मृतौ सहे चैव सहस्ये च वसन्त्येते दिवाकरे
ततस्तु शिशिरे चापि मासयोर्निवसन्ति ते त्वष्टा विष्णुर्जमदग्निर् विश्वामित्रस्तथैव च
काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ गन्धर्वौ धृतराष्ट्रश्च सूर्यवर्चाश्च तावुभौ
तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा ग्रामणीर् ऋतजिच्चैव सत्यजिच्च महाबलः
ब्रह्मोपेतश्च वै रक्षो यज्ञोपेतस्तथैव च इत्येते निवसन्ति स्म द्वौ द्वौ मासौ दिवाकरे
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः सूर्यमापादयन्त्येते तेजसा तेज उत्तमम्
ग्रथितैस्तु वचोभिश्च स्तुवन्ति ऋषयो रविम् गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते
विद्याग्रामणिनो यक्षाः कुर्वन्त्याभीषुसंग्रहम् सर्पाः सर्पन्ति वै सूर्ये यातुधानानुयान्ति च
वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् एतेषामेव देवानां यथावीर्यं यथातपः
यथायोगं यथाधर्मं यथातत्त्वं यथाबलम् तथा तपत्यसौ सूर्यस् तेषामिद्धस्तु तेजसा
भूतानामशुभं सर्वं व्यपोहति स्वतेजसा मानवानां शुभैर्ह्येतैर् ह्रियते दुरितं तु वै
दुरितं शुभचाराणां व्यपोहन्ति क्वचित्क्वचित् एते सहैव सूर्येण भ्रमन्ति सानुगा दिवि
तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै प्रजाः गोपायन्ति स्म भूतानि ईहन्ते ह्यनुकम्पया
स्थानाभिमानिनां ह्येतत् स्थानं मन्वन्तरेषु वै अतीतानागतानां च वर्तन्ते साम्प्रतं च ये
एवं वसन्ति वै सूर्ये सप्तकास्ते चतुर्दश चतुर्दशेषु वर्तन्ते गणा मन्वन्तरेषु वै
ग्रीष्मे हिमे च वर्षासु मुञ्चमाना यथाक्रमम् धर्मं हिमं च वर्षं च यथाक्रममहर्निशम्
गच्छत्यसावनुदिनं परिवृत्य रश्मीन् देवान्पितॄंश्च मनुजांश्च सुतर्पयन्वै शुक्ले च कृष्णे तदहःक्रमेण कालक्षये चैव सुराः पिबन्ति
मासेन तच्चामृतमस्य मृष्टं सुवृष्टये रश्मिषु रक्षितं तु सर्वे ऽमृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः
सूर्येण गोभिर्हि विवर्धिताभिर् अद्भिः पुनश्चैव समुच्छ्रिताभिः वृष्ट्याभिवृष्टाभिर् अथौषधीभिर् मर्त्या अथान्नेन क्षुधं जयन्ति
तृप्तिश्च तेनार्धमासं सुराणां मासं सुधाभिः स्वधया पितॄणाम् अन्नेन जीवन्त्यनिशं मनुष्याः सूर्यः श्रितं तद्धि बिभर्ति गोभिः
इत्येष एकचक्रेण सूर्यस्तूर्णं प्रसर्पति तत्र तैरक्रमैरश्वैः सर्पते ऽसौ दिनक्षये
हरिर् हरिद्भिर् ह्रियते तुरंगमैः पिबत्यथापो हरिभिः सहस्रधा पुनः प्रमुञ्चत्यथ ताश्च यो हरिः स मुह्यमानो हरिभिस्तुरंगमैः
अहोरात्रं रथेनासाव् एकचक्रेण वै भ्रमन् सप्तद्वीपसमुद्रांश्च सप्तभिः सप्तभिर्द्रुतम्
छन्दोरूपैश्च तैरश्वैर् युतश्चक्रं ततः स्थितिः कामरूपैः सकृद्युक्तैः कामगैस्तैर्मनोजवैः
हरितैरव्यथैः पिङ्गैर् ईश्वरैर् ब्रह्मवादिभिः बाह्यतो ऽनन्तरं चैव मण्डलं दिवसक्रमात्