युगाक्षकोटी ते तस्य वातोर्मी स्यन्दनस्य तु संक्रमेते ध्रुवमहो मण्डले सर्वतोदिशम्
भ्रमतस्तस्य रश्मी ते मण्डले तूत्तरायणे वर्धेते दक्षिणेष्वत्र भ्रमतो मण्डलानि तु
युगाक्षकोटीसम्बद्धौ द्वौ रश्मी स्यन्दनस्य तु ध्रुवेण प्रगृहीतौ तौ रथौ यौ वनतो रविम्
आकृष्येते यदा ते तु ध्रुवेण समधिष्ठिते तदा सो ऽभ्यन्तरे सूर्यो भ्रमते मण्डलानि तु
अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन् ध्रुवेण मुच्यमानेन पुना रश्मियुगेन च
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु उद्वेष्टयन्वै वेगेन मण्डलानि तु गच्छति
स रथो ऽधिष्ठितो देवैर् मासि मासि यथाक्रमम् ततो वहत्यथादित्यं बहुभिर् ऋषिभिः सह
गन्धर्वैरप्सरोभिश्च सर्पग्रामणिराक्षसैः एते वसन्ति वै सूर्ये मासौ द्वौ द्वौ क्रमेण च
धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापती उरगौ वासुकिश्चैव संकीर्णश्चैव तावुभौ
तुम्बुरुर् नारदश्चैव गन्धर्वौ गायतां वरौ कृतस्थलाप्सराश्चैव या च सा पुञ्जिकस्थला
ग्रामण्यौ रथकृत्तस्य रथौजाश्चैव तावुभौ रक्षो हेतिः प्रहेतिश्च यातुधानावुभौ ऋतौ
मधुमाधवयोर्ह्येष गणो वसति भास्करे वसन्ग्रीष्मे तु द्वौ मासौ मित्रश्च वरुणश्च वै
ऋषी अत्रिर्वसिष्ठश्च नागौ तक्षकरम्भकौ मेनका सहजन्या च हाहा हूहूश्च गायकौ
रथंतरश्च ग्रामण्यौ रथकृच्चैव तावुभौ पुरुषादो वधश्चैव यातुधानौ तु तौ स्मृतौ
एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः ततः सूर्ये पुनश्चान्या निवसन्ति स्म देवताः
इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च एलापत्त्रस्तथा सर्पः शङ्खपालश्च पन्नगः
विश्वावसुसुषेणौ च प्रातश्चैव रथश्च हि प्रम्लोचेत्यप्सराश्चैव निम्रोचन्ती च ते उभे
यातुधानस्तथा हेतिर् व्याघ्रश्चैव तु तावुभौ नभस्यनभसोरेतैर् वसन्तश्च दिवाकरे
मासौ द्वौ देवताः सूर्ये वसन्ति च शरदृतौ पर्जन्यश्चैव पूषा च भरद्वाजः सगौतमः
चित्रसेनश्च गन्धर्वस् तथा वा सुरुचिश्च यः विश्वाची च घृताची च उभे ते पुण्यलक्षणे
नागश्चैरावतश्चैव विश्रुतश्च धनंजयः सेनजिच्च सुषेणश्च सेनानीर् ग्रामणीस् तथा
चारो वातश्च द्वावेतौ यातुधानावुभौ स्मृतौ वसन्त्येते च वै सूर्ये मासयोश्च त्विषोर्जयोः
हैमन्तिकौ च द्वौ मासौ निवसन्ति दिवाकरे अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च तौ
भुजंगश्च महापद्मः सर्पः कर्कोटकस्तथा चित्रसेनश्च गन्धर्वः पूर्णायुश्चैव गायनौ
अप्सराः पूर्वचित्तिश्च गन्धर्वा ह्युर्वशी च या तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर् ग्रामणीश् च तौ
विद्युत्सूर्यश्च तावुग्रौ यातुधानौ तु तौ स्मृतौ सहे चैव सहस्ये च वसन्त्येते दिवाकरे
ततस्तु शिशिरे चापि मासयोर्निवसन्ति ते त्वष्टा विष्णुर्जमदग्निर् विश्वामित्रस्तथैव च
काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ गन्धर्वौ धृतराष्ट्रश्च सूर्यवर्चाश्च तावुभौ
तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा ग्रामणीर् ऋतजिच्चैव सत्यजिच्च महाबलः
ब्रह्मोपेतश्च वै रक्षो यज्ञोपेतस्तथैव च इत्येते निवसन्ति स्म द्वौ द्वौ मासौ दिवाकरे