नियच्छत्यापो मेघेभ्यः शुक्लाः शुक्लैस्तु रश्मिभिः अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः
ततो वर्षति षण्मासान् सर्वभूतविवृद्धये वायुभिः स्तनितं चैव विद्युतस्त्वग्निजाः स्मृताः
मेहनाच्च मिहेर् धातोर् मेघत्वं व्यञ्जयन्ति च न भ्रश्यन्ते ततो ह्यापस् तस्मादभ्रस्य वै स्थितिः स्रष्टासौ वृष्टिसर्गस्य ध्रुवेणाधिष्ठितो रविः
ध्रुवेणाधिष्ठितो वायुर् वृष्टिं संहरते पुनः ग्रहन्निवृत्त्या सूर्यात्तु चरते ऋक्षमण्डलम्
चारस्यान्ते विशत्यर्कं ध्रुवेण समधिष्ठितम् अतः सूर्यरथस्यापि संनिवेशं प्रचक्षते
स्थितेन त्वेकचक्रेण पञ्चारेण त्रिणाभिना हिरण्मयेनाणुना वै अष्टचक्रैकनेमिना चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पिणा
शतयोजनसाहस्रो विस्तारायाम उच्यते द्विगुणा च रथोपस्थाद् ईषादण्डः प्रमाणतः
स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु असङ्गः काञ्चनो दिव्यो युक्तः पवनगैर्हयैः
छन्दोभिर्वाजिरूपैस्तैर् यथाचक्रं समास्थितैः वारुणस्य रथस्येह लक्षणैः सदृशश्च सः
तेनासौ चरति व्योम्नि भास्वाननुदिनं दिवि अथाङ्गानि तु सूर्यस्य प्रत्यङ्गानि रथस्य च संवत्सरस्यावयवैः कल्पितानि यथाक्रमम्
अहर्नाभिस्तु सूर्यस्य एकचक्रस्य वै स्मृतः अराः संवत्सरास्तस्य नेम्यः षडृतवः स्मृताः
रात्रिर्वरूथो धर्मश्च ध्वज ऊर्ध्वं व्यवस्थितः अक्षकोट्योर्युगान्यस्य आर्तवाहाः कलाः स्मृताः
तस्य काष्ठा स्मृता घोणा दन्तपङ्क्तिः क्षणास्तु वै निमेषश्चानुकर्षो ऽस्य ईषा चास्य कला स्मृता
युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ सप्ताश्वरूपाश्छन्दांसि वहन्ते वायुरंहसा
गायत्री चैव त्रिष्टुप्च जगत्यनुष्टुप्तथैव च पङ्क्तिश्च बृहती चैव उष्णिगेव तु सप्तमम्
चक्रमक्षे निबद्धं तु ध्रुवे चाक्षः समर्पितः सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवः
अक्षः सहैव चक्रेण भ्रमते ऽसौ ध्रुवेरितः एवमर्थवशात्तस्य संनिवेशो रथस्य तु
तथा संयोगभागेन सिद्धो वै भास्करो रथः तेनासौ तरणिर्देवो नभसः सर्पते दिवम्
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु भ्रमतो भ्रमतो रश्मी तौ चक्रयुगयोस्तु वै
मण्डलानि भ्रमन्ते ऽस्य खेचरस्य रथस्य तु कुलालचक्रभ्रमवन् मण्डलं सर्वतोदिशम्
युगाक्षकोटी ते तस्य वातोर्मी स्यन्दनस्य तु संक्रमेते ध्रुवमहो मण्डले सर्वतोदिशम्
भ्रमतस्तस्य रश्मी ते मण्डले तूत्तरायणे वर्धेते दक्षिणेष्वत्र भ्रमतो मण्डलानि तु
युगाक्षकोटीसम्बद्धौ द्वौ रश्मी स्यन्दनस्य तु ध्रुवेण प्रगृहीतौ तौ रथौ यौ वनतो रविम्
आकृष्येते यदा ते तु ध्रुवेण समधिष्ठिते तदा सो ऽभ्यन्तरे सूर्यो भ्रमते मण्डलानि तु
अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन् ध्रुवेण मुच्यमानेन पुना रश्मियुगेन च
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु उद्वेष्टयन्वै वेगेन मण्डलानि तु गच्छति
स रथो ऽधिष्ठितो देवैर् मासि मासि यथाक्रमम् ततो वहत्यथादित्यं बहुभिर् ऋषिभिः सह
गन्धर्वैरप्सरोभिश्च सर्पग्रामणिराक्षसैः एते वसन्ति वै सूर्ये मासौ द्वौ द्वौ क्रमेण च
धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापती उरगौ वासुकिश्चैव संकीर्णश्चैव तावुभौ
तुम्बुरुर् नारदश्चैव गन्धर्वौ गायतां वरौ कृतस्थलाप्सराश्चैव या च सा पुञ्जिकस्थला