पुष्करा नाम ते पक्षा बृहन्तस्तोयधारिणः पुष्करावर्तका नाम कारणेनेह शब्दिताः
नानारूपधराश्चैव महाघोरस्वराश्च ते कल्पान्तवृष्टिकर्तारः कल्पान्ताग्नेर् नियामकाः
वाय्वाधारा वहन्ते वै सामृताः कल्पसाधकाः यान्यस्याण्डस्य भिन्नस्य प्राकृतान्यभवंस्तदा
यस्मिन् ब्रह्मा समुत्पन्नश् चतुर्वक्त्रः स्वयं प्रभुः तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्तिताः
तेषामाप्यायनं धूमः सर्वेषाम् अविशेषतः तेषां श्रेष्ठश्च पर्जन्यश् चत्वारश्चैव दिग्गजाः
गजानां पर्वतानां च मेघानां भोगिभिः सह कुलमेकं द्विधा भूतं योनिरेका जलं स्मृतम्
पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवम् तुषारवर्षं वर्षन्ति वृद्धा ह्यन्नविवृद्धये
षष्ठः परिवहो नाम वायुस्तेषां परायणः यौ ऽसौ बिभर्ति भगवान् गङ्गामाकाशगोचराम्
दिव्यामृतजलां पुण्यां त्रिपथामिति विश्रुताम् तस्या विस्पन्दितं तोयं दिग्गजाः पृथुभिः करैः
शीकरान् सम्प्रमुञ्चन्ति नीहार इति स स्मृतः दक्षिणेन गिरिर्यो ऽसौ हेमकूट इति स्मृतः
उदग्धिमवतः शैलस्य्-ओत्तरे चैव दक्षिणे पुण्ड्रं नाम समाख्यातं सम्यग्वृष्टिविवृद्धये
तस्मिन्प्रवर्तते वर्षं तत्तुषारसमुद्भवम् ततो हिमवतो वायुर् हिमं तत्र समुद्भवम्
आनयत्यात्मवेगेन सिञ्चयानो महागिरिम् हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्
इभास्ये च ततः पश्चाद् इदं भूतविवृद्धये वर्षद्वयं समाख्यातं सम्यग्वृष्टिविवृद्धये
मेघाश्चाप्यायनं चैव सर्वमेतत्प्रकीर्तितम् सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते
वर्षं घर्मं हिमं रात्रिं संध्ये चैव दिनं तथा शुभाशुभफलानीह ध्रुवात्सर्वं प्रवर्तते
ध्रुवेणाधिष्ठिताश्चापः सूर्यो वै गृह्य तिष्ठति सर्वभूतशरीरेषु त्व् आपो ह्यनुश्रिताश्च याः
दह्यमानेषु तेष्वेव जङ्गमस्थावरेषु च धूमभूतास्तु ता ह्यापो निष्क्रामन्तीह सर्वशः
तेन चाभ्राणि जायन्ते स्थानमभ्रमयं स्मृतम् तेजोभिः सर्वलोकेभ्य आदत्ते रश्मिभिर्जलम्
समुद्राद्वायुसंयोगाद् वहन्त्यापो गभस्तयः ततस्त्वृतुवशात्काले परिवर्तन्दिवाकरः
नियच्छत्यापो मेघेभ्यः शुक्लाः शुक्लैस्तु रश्मिभिः अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः
ततो वर्षति षण्मासान् सर्वभूतविवृद्धये वायुभिः स्तनितं चैव विद्युतस्त्वग्निजाः स्मृताः
मेहनाच्च मिहेर् धातोर् मेघत्वं व्यञ्जयन्ति च न भ्रश्यन्ते ततो ह्यापस् तस्मादभ्रस्य वै स्थितिः स्रष्टासौ वृष्टिसर्गस्य ध्रुवेणाधिष्ठितो रविः
ध्रुवेणाधिष्ठितो वायुर् वृष्टिं संहरते पुनः ग्रहन्निवृत्त्या सूर्यात्तु चरते ऋक्षमण्डलम्
चारस्यान्ते विशत्यर्कं ध्रुवेण समधिष्ठितम् अतः सूर्यरथस्यापि संनिवेशं प्रचक्षते
स्थितेन त्वेकचक्रेण पञ्चारेण त्रिणाभिना हिरण्मयेनाणुना वै अष्टचक्रैकनेमिना चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पिणा
शतयोजनसाहस्रो विस्तारायाम उच्यते द्विगुणा च रथोपस्थाद् ईषादण्डः प्रमाणतः
स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु असङ्गः काञ्चनो दिव्यो युक्तः पवनगैर्हयैः
छन्दोभिर्वाजिरूपैस्तैर् यथाचक्रं समास्थितैः वारुणस्य रथस्येह लक्षणैः सदृशश्च सः
तेनासौ चरति व्योम्नि भास्वाननुदिनं दिवि अथाङ्गानि तु सूर्यस्य प्रत्यङ्गानि रथस्य च संवत्सरस्यावयवैः कल्पितानि यथाक्रमम्