कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम् एतद्वेदितुम् इच्छामस् ततो निगद सत्तम
भूतसंमोहनं ह्येतद् ब्रुवतो मे निबोधत प्रत्यक्षमपि दृश्यं तत् संमोहयति वै प्रजाः
यो ऽसौ चतुर्दशर्क्षेषु शिशुमारो व्यवस्थितः उत्तानपादपुत्रो ऽसौ मेढीभूतो ध्रुवो दिवि
सैष भ्रमन्भ्रामयते चन्द्रादित्यौ ग्रहैः सह भ्रमन्तमनुसर्पन्ति नक्षत्राणि च चक्रवत्
ध्रुवस्य मनसा यो वै भ्रमते ज्योतिषां गणः वातानीकमयैर् बन्धैर् ध्रुवे बद्धः प्रसर्पति
तेषां भेदश्च योगश्च तथा कालस्य निश्चयः अस्तोदयास्तथोत्पाता अयने दक्षिणोत्तरे
विषुवद्ग्रहवर्णश्च सर्वमेतद्ध्रुवेरितम् जीमूता नाम ते मेघा यदेभ्यो जीवसम्भवः
द्वितीय आवहन्वायुर् मेघास्ते त्वभिसंश्रिताः इतो योजनमात्राच्च अध्यर्धविकृता अपि
वृष्टिसर्गस्तथा तेषां धारासारः प्रकीर्तितः पुष्करावर्तका नाम ये मेघाः पक्षसम्भवाः
शक्रेण पक्षाश्छिन्ना वै पर्वतानां महौजसा कामगानां समृद्धानां भूतानां नाशमिच्छताम्
पुष्करा नाम ते पक्षा बृहन्तस्तोयधारिणः पुष्करावर्तका नाम कारणेनेह शब्दिताः
नानारूपधराश्चैव महाघोरस्वराश्च ते कल्पान्तवृष्टिकर्तारः कल्पान्ताग्नेर् नियामकाः
वाय्वाधारा वहन्ते वै सामृताः कल्पसाधकाः यान्यस्याण्डस्य भिन्नस्य प्राकृतान्यभवंस्तदा
यस्मिन् ब्रह्मा समुत्पन्नश् चतुर्वक्त्रः स्वयं प्रभुः तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्तिताः
तेषामाप्यायनं धूमः सर्वेषाम् अविशेषतः तेषां श्रेष्ठश्च पर्जन्यश् चत्वारश्चैव दिग्गजाः
गजानां पर्वतानां च मेघानां भोगिभिः सह कुलमेकं द्विधा भूतं योनिरेका जलं स्मृतम्
पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवम् तुषारवर्षं वर्षन्ति वृद्धा ह्यन्नविवृद्धये
षष्ठः परिवहो नाम वायुस्तेषां परायणः यौ ऽसौ बिभर्ति भगवान् गङ्गामाकाशगोचराम्
दिव्यामृतजलां पुण्यां त्रिपथामिति विश्रुताम् तस्या विस्पन्दितं तोयं दिग्गजाः पृथुभिः करैः
शीकरान् सम्प्रमुञ्चन्ति नीहार इति स स्मृतः दक्षिणेन गिरिर्यो ऽसौ हेमकूट इति स्मृतः
उदग्धिमवतः शैलस्य्-ओत्तरे चैव दक्षिणे पुण्ड्रं नाम समाख्यातं सम्यग्वृष्टिविवृद्धये
तस्मिन्प्रवर्तते वर्षं तत्तुषारसमुद्भवम् ततो हिमवतो वायुर् हिमं तत्र समुद्भवम्
आनयत्यात्मवेगेन सिञ्चयानो महागिरिम् हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्
इभास्ये च ततः पश्चाद् इदं भूतविवृद्धये वर्षद्वयं समाख्यातं सम्यग्वृष्टिविवृद्धये
मेघाश्चाप्यायनं चैव सर्वमेतत्प्रकीर्तितम् सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते
वर्षं घर्मं हिमं रात्रिं संध्ये चैव दिनं तथा शुभाशुभफलानीह ध्रुवात्सर्वं प्रवर्तते
ध्रुवेणाधिष्ठिताश्चापः सूर्यो वै गृह्य तिष्ठति सर्वभूतशरीरेषु त्व् आपो ह्यनुश्रिताश्च याः
दह्यमानेषु तेष्वेव जङ्गमस्थावरेषु च धूमभूतास्तु ता ह्यापो निष्क्रामन्तीह सर्वशः
तेन चाभ्राणि जायन्ते स्थानमभ्रमयं स्मृतम् तेजोभिः सर्वलोकेभ्य आदत्ते रश्मिभिर्जलम्
समुद्राद्वायुसंयोगाद् वहन्त्यापो गभस्तयः ततस्त्वृतुवशात्काले परिवर्तन्दिवाकरः