प्रजौषणिः सप्तर्षयो द्वापरेष्विह जज्ञिरे संततिं ते जुगुप्सन्ते तस्मान्मृत्युर्जितस्तु तैः
अष्टाशीतिसहस्राणि तेषामप्यूर्ध्वरेतसाम् उदक्पन्था न पर्यन्तम् आश्रित्याभूतसंप्लवम्
ते संप्रयोगाल्लोकस्य मिथुनस्य च वर्जनात् ईर्ष्याद्वेषनिवृत्त्या च भूतारम्भविवर्जनात्
ततो ऽन्यकामसंयोगशब्दादेर् दोषदर्शनात् इत्येतैः कारणैः शुद्धैस् ते ऽमृतत्वं हि भेजिरे
आभूतसम्प्लवस्थानाम् अमृतत्वं विभाव्यते त्रैलोक्यस्थितिकालो हि न पुनर्मारगामिणाम्
भ्रूणहत्याश्वमेधादिपापपुण्यनिभैः परम् आभूतसम्प्लवान्ते तु क्षीयन्ते चोर्ध्वरेतसः
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रानुसंस्थितः एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम्
यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् धर्मे ध्रुवस्य तिष्ठन्ति ये तु लोकस्य काङ्क्षिणः
एवं श्रुत्वा कथां दिव्याम् अब्रुवंल्लौमहर्षणिम् सूर्याचन्द्रमसोश् चारं ग्रहाणां चैव सर्वशः
भ्रमन्ति कथमेतानि ज्योतींषि रविमण्डले अव्यूहेनैव सर्वाणि तथा चासंकरेण वा
कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम् एतद्वेदितुम् इच्छामस् ततो निगद सत्तम
भूतसंमोहनं ह्येतद् ब्रुवतो मे निबोधत प्रत्यक्षमपि दृश्यं तत् संमोहयति वै प्रजाः
यो ऽसौ चतुर्दशर्क्षेषु शिशुमारो व्यवस्थितः उत्तानपादपुत्रो ऽसौ मेढीभूतो ध्रुवो दिवि
सैष भ्रमन्भ्रामयते चन्द्रादित्यौ ग्रहैः सह भ्रमन्तमनुसर्पन्ति नक्षत्राणि च चक्रवत्
ध्रुवस्य मनसा यो वै भ्रमते ज्योतिषां गणः वातानीकमयैर् बन्धैर् ध्रुवे बद्धः प्रसर्पति
तेषां भेदश्च योगश्च तथा कालस्य निश्चयः अस्तोदयास्तथोत्पाता अयने दक्षिणोत्तरे
विषुवद्ग्रहवर्णश्च सर्वमेतद्ध्रुवेरितम् जीमूता नाम ते मेघा यदेभ्यो जीवसम्भवः
द्वितीय आवहन्वायुर् मेघास्ते त्वभिसंश्रिताः इतो योजनमात्राच्च अध्यर्धविकृता अपि
वृष्टिसर्गस्तथा तेषां धारासारः प्रकीर्तितः पुष्करावर्तका नाम ये मेघाः पक्षसम्भवाः
शक्रेण पक्षाश्छिन्ना वै पर्वतानां महौजसा कामगानां समृद्धानां भूतानां नाशमिच्छताम्
पुष्करा नाम ते पक्षा बृहन्तस्तोयधारिणः पुष्करावर्तका नाम कारणेनेह शब्दिताः
नानारूपधराश्चैव महाघोरस्वराश्च ते कल्पान्तवृष्टिकर्तारः कल्पान्ताग्नेर् नियामकाः
वाय्वाधारा वहन्ते वै सामृताः कल्पसाधकाः यान्यस्याण्डस्य भिन्नस्य प्राकृतान्यभवंस्तदा
यस्मिन् ब्रह्मा समुत्पन्नश् चतुर्वक्त्रः स्वयं प्रभुः तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्तिताः
तेषामाप्यायनं धूमः सर्वेषाम् अविशेषतः तेषां श्रेष्ठश्च पर्जन्यश् चत्वारश्चैव दिग्गजाः
गजानां पर्वतानां च मेघानां भोगिभिः सह कुलमेकं द्विधा भूतं योनिरेका जलं स्मृतम्
पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवम् तुषारवर्षं वर्षन्ति वृद्धा ह्यन्नविवृद्धये
षष्ठः परिवहो नाम वायुस्तेषां परायणः यौ ऽसौ बिभर्ति भगवान् गङ्गामाकाशगोचराम्
दिव्यामृतजलां पुण्यां त्रिपथामिति विश्रुताम् तस्या विस्पन्दितं तोयं दिग्गजाः पृथुभिः करैः
शीकरान् सम्प्रमुञ्चन्ति नीहार इति स स्मृतः दक्षिणेन गिरिर्यो ऽसौ हेमकूट इति स्मृतः