मुहूर्तैस्त्रिंशता तावद् अहोरात्रं भुवो भ्रमन् उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि तु
उत्तरक्रमणे ऽर्कस्य दिवा मन्दगतिः स्मृता तस्यैव तु पुनर्नक्तं शीघ्रा सूर्यस्य वै गतिः
दक्षिणप्रक्रमे वापि दिवा शीघ्रं विधीयते गतिः सूर्यस्य वै नक्तं मन्दा चापि विधीयते
एवं गतिविशेषेण विभजन्रात्र्यहानि तु अजवीथ्यां दक्षिणायां लोकालोकस्य चोत्तरम्
लोकसंतानतो ह्येष वैश्वानरपथाद्बहिः व्युष्टिर्यावत्प्रभा सौरी पुष्करात्सम्प्रवर्तते
पार्श्वेभ्यो बाह्यतस् तावल् लोकालोकश्च पर्वतः योजनानां सहस्राणि दशोर्ध्वं चोच्छ्रितो गिरिः
प्रकाशश्चाप्रकाशश्च पर्वतः परिमण्डलः नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह
अभ्यन्तरे प्रकाशन्ते लोकालोकस्य वै गिरेः एतावानेव लोकस्तु निरालोकस्ततः परम्
लोक आलोकने धातुर् निरालोकस्त्वलोकता लोकालोकौ तु संधत्ते यस्मात्सूर्यः परिभ्रमन्
तस्मात्संध्येति तामाहुर् उषाव्युष्टैर्यथान्तरम् उषा रात्रिः स्मृता विप्रैर् व्युष्टिश्चापि अहः स्मृतम्
त्रिंशत्कलो मुहूर्तस्तु अहस्ते दश पञ्च च ह्रासो वृद्धिरहर्भागैर् दिवसानां यथा तु वै
संध्यामुहूर्तमात्रायां ह्रासवृद्धी तु ते ऋते लेखाप्रभृत्यथादित्ये त्रिमुहूर्तागते तु वै
प्रातः स्मृतस्ततः कालो भागांश्चाहुश्च पञ्च च तस्मात्प्रातर्गतात्कालान् मुहूर्ताः संगवस् त्रयः
मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालादनन्तरम् तस्मान्मध्यंदिनात्कालाद् अपराह्ण इति स्मृतः
त्रय एव मुहूर्तास्तु काल एष स्मृतो बुधैः अपराह्णव्यतीताच्च कालः सायं स उच्यते
दश पञ्च मुहूर्ताह्नो मुहूर्तास् त्रय एव च दशपञ्चमुहूर्तं वै अहस्तु विषुवे स्मृतम्
वर्धत्यतो ह्रसत्येव अयने दक्षिणोत्तरे अहस्तु ग्रसते रात्रिं रात्रिस्तु ग्रसते अहः
शरद्वसन्तयोर्मध्यं विषुवं तु विधीयते आलोकान्तः स्मृतो लोको लोकाच्चालोक उच्यते
लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः चत्वारस्ते महात्मानस् तिष्ठन्त्याभूतसंप्लवम्
सुधामा चैव वैराजः कर्दमश्च प्रजापतिः हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च सः
निर्द्वंद्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः लोकपालाः स्थितास्त्वेते लोकालोके चतुर्दिशम्
उत्तरं यदगस्त्यस्य शृङ्गं देवर्षिसेवितम् पितृयानः स्मृतः पन्था वैश्वानरपथाद्बहिः
तत्रासते प्रजाकामा ऋषयो ये ऽग्निहोत्रिणः लोकस्य संतानकराः पितृयाने पथि स्थिताः
भूतारम्भकृतं कर्म आशिषश्च विशां पते प्रारभन्ते लोककामास् तेषां पन्थाः स दक्षिणः
चलितं ते पुनर्धर्मं स्थापयन्ति युगे युगे संतप्ततपसा चैव मर्यादाभिः श्रुतेन च
जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु ते पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्विह
एवमावर्तमानास्ते वर्तन्त्याभूतसंप्लवम् अष्टाशीतिसहस्राणि ऋषीणां गृहमेधिनाम्
सवितुर्दक्षिणं मार्गम् आश्रित्याभूतसंप्लवम् क्रियावतां प्रसंख्यैषा ये श्मशानानि भेजिरे
लोकसंव्यवहारार्थं भूतारम्भकृतेन च इच्छाद्वेषरताच्चैव मैथुनोपगमाच्च वै
तथा कामकृतेनेह सेवनाद्विषयस्य च इत्येतैः कारणैः सिद्धाः श्मशानानीह भेजिरे