रोचमानस्य पुत्रो ऽभूद् रेवो रैवत एव च ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च
रेवती तस्य सा कन्या भार्या रामस्य विश्रुता करूषस्य तु कारूषा बहवः प्रथिता भुवि
पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत इक्ष्वाकुवंशं वक्ष्यामि शृणुध्वमृषिसत्तमाः
इक्ष्वाकोः पुत्रताम् आप विकुक्षिर् नाम देवराट् ज्येष्ठः पुत्रशतस्यासीद् दश पञ्च च तत्सुताः
मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः चतुर्दशोत्तरं चान्यच् छतमस्य तथाभवत्
मेरोर्दक्षिणतो ये ये राजानः संप्रकीर्तिताः ज्येष्ठः ककुत्स्थो नाम्नाभूत् तत्सुतस्तु सुयोधनः
तस्य पुत्रः पृथुर्नाम विश्वगश्चपृथोः सुतः इन्दुस्तस्य च पुत्रो ऽभूद् युवनाश्वस्ततो ऽभवत्
श्रावस्तश्च महातेजा वत्सकस्तत्सुतो ऽभवत् निर्मिता येन श्रावस्ती गौडदेशे द्विजोत्तमाः
श्रावस्ताद्बृहदश्वो ऽभूत् कुवलाश्वस् ततो ऽभवत् धुन्धुमारत्वमगमद् धुन्धुनाम्ना हतः पुरा
तस्य पुत्रास् त्रयो जाता दृढाश्वो दण्ड एव च कपिलाश्वश्च विख्यातो धौन्धुमारिः प्रतापवान्
दृढाश्वस्य प्रमोदश्च हर्यश्वस्तस्य चात्मजः हर्यश्वस्य निकुम्भो ऽभूत् संहताश्वस् ततो ऽभवत्
अकृताश्वो रणाश्वश्च संहताश्वसुताव् उभौ युवनाश्वो रणाश्वस्य मान्धाता च ततो ऽभवत्
मान्धातुः पुरुकुत्सो ऽभूद् धर्मसेनश्च पार्थिवः मुचुकुन्दश्च विख्यातः शत्रुजिच्च प्रतापवान्
पुरुकुत्सस्य पुत्रो ऽभूद् वसुदो नर्मदापतिः सम्भूतिस्तस्य पुत्रो ऽभूत् त्रिधन्वा च ततो ऽभवत्
त्रिधन्वनः सुतो जातस् त्रय्यारुण इति स्मृतः तस्मात्सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः
तस्य पुत्रो हरिश्चन्द्रो हरिश्चन्द्राच्च रोहितः रोहिताच्च वृको जातो वृकाद्बाहुरजायत
सगरस्तस्य पुत्रो ऽभूद् राजा परमधार्मिकः द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा
ताभ्यामाराधितः पूर्वम् और्वो ऽग्निः पुत्रकाम्यया और्वस्तुष्टस्तयोः प्रादाद् यथेष्टं वरमुत्तमम्
एका षष्टिसहस्राणि सुतमेकं तथापरा गृह्णातु वंशकर्तारं प्रभागृह्णाद् बहूंस्तदा
एकं भानुमती पुत्रम् अगृह्णादसमञ्जसम् ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा
खनन्तः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे असमञ्जसस्तु तनयो यो ऽंशुमान्नाम विश्रुतः
तस्य पुत्रो दिलीपस् तु दिलीपात्तु भगीरथः येन भागीरथी गङ्गा तपः कृत्वावतारिता
भगीरथस्य तनयो नाभाग इति विश्रुतः नाभागस्याम्बरीषो ऽभूत् सिन्धुद्वीपस् ततो ऽभवत्
तस्यायुतायुः पुत्रो ऽभूद् ऋतुपर्णस्ततो ऽभवत् तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः
तस्यानरण्यः पुत्रो ऽभून् निघ्नस्तस्य सुतो ऽभवत् निघ्नपुत्राव् उभौ जाताव् अनमित्ररघू नृपौ
अनामित्रो वनमगाद् भविता स कृते नृपः रघोर् अभूद्दिलीपस्तु दिलीपादजकस्तथा
दीर्घबाहुरजाज्जातश् चाजपालस्ततो नृपः तस्माद्दशरथो जातस् तस्य पुत्रचतुष्टयम्
नारायणात्मकाः सर्वे रामस्तेष्वग्रजो ऽभवत् रावणान्तकरस्तद्वद् रघूणां वंशवर्धनः
वाल्मीकिस्तस्य चरितं चक्रे भार्गवसत्तमः तस्य पुत्रौ कुशलवाव् इक्ष्वाकुकुलवर्धनौ
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः नलस्तु नैषधस्तस्मान् नभास्तस्मादजायत