नव कोट्यः प्रसंख्याता योजनैः परिमण्डलम् तथा शतसहस्राणि चत्वारिंशच्च पञ्च च
अहोरात्रात्पतंगस्य गतिरेषा विधीयते दक्षिणादिङ्निवृत्तो ऽसौ विषुवस्थो यदा रविः
क्षीरोदस्य समुद्रस्योत्तरतो ऽपि दिशं चरन् मण्डलं विषुवच्चापि योजनैस्तन्निबोधत
तिस्रः कोट्यस्तु सम्पूर्णा विषुवस्यापि मण्डलम् तथा शतसहस्राणि विंशत्येकाधिकानि तु
श्रावणे चोत्तरां काष्ठां चित्रभानुर्यदा भवेत् गोमेदस्य परद्वीपे उत्तरां च दिशं चरन्
उत्तरायाः प्रमाणं तु काष्ठाया मण्डलस्य तु दक्षिणोत्तरमध्यानि तानि विन्द्याद् यथाक्रमम्
स्थानं जरद्गवं मध्ये तथैरावतमुत्तमम् वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः
नागवीथ्युत्तरा वीथी ह्य् अजवीथिस् तु दक्षिणा उभे आषाढमूलं तु अजवीथ्यादयस् त्रयः
अभिजित्पूर्वतः स्वातिं नागवीथ्युत्तरास् त्रयः अश्विनी कृत्तिका याम्या नागवीथ्यस् त्रयः स्मृताः
रोहिण्यार्द्रा मृगशिरो नागवीथिर् इति स्मृता पुष्याश्लेषा पुनर्वस्वोर् वीथी चैरावती स्मृता
तिस्रस्तु वीथयो ह्येता उत्तरो मार्ग उच्यते पूर्वोत्तरा च फल्गुन्यौ मघा चैवार्षभी भवेत्
पूर्वोत्तरप्रोष्ठपदौ गोवीथी रेवती स्मृता श्रवणं च धनिष्ठा च वारुणं च जरद्गवम्
एतास्तु वीथयस् तिस्रो मध्यमो मार्ग उच्यते हस्तश्चित्रा तथा स्वाती ह्य् अजवीथिरिति स्मृता
ज्येष्ठा विशाखा मैत्रं च मृगवीथी तथोच्यते मूलं पूर्वोत्तराषाढे वीथी वैश्वानरी भवेत्
स्मृतास्तिस्रस्तु वीथ्यस्ता मार्गे वै दक्षिणे पुनः काष्ठयोरन्तरं चैतद् वक्ष्यते योजनैः पुनः
एतच्छतसहस्राणाम् एकत्रिंशत्तु वै स्मृतम् शतानि त्रीणि चान्यानि त्रयस्त्रिंशत्तथैव च
काष्ठयोरन्तरं ह्येतद् योजनानां प्रकीर्तितम् काष्ठयोर्लेखयोश्चैव अयने दक्षिणोत्तरे
ते वक्ष्यामि प्रसंख्याय योजनैस्तु निबोधत एकैकमन्तरं तद्वद् युक्तान्येतानि सप्तभिः
सहस्रेणातिरिक्ता च ततो ऽन्या पञ्चविंशतिः लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोश्चरन्
अभ्यन्तरं स पर्येति मण्डलान्युत्तरायणे बाह्यतो दक्षिणेनैव सततं सूर्यमण्डलम्
चरन्नसावुदीच्यां च ह्य् अशीत्या मण्डलाञ्छतम् अभ्यन्तरं स पर्येति क्रमते मण्डलानि तु
प्रमाणं मण्डलस्यापि योजनानां निबोधत योजनानां सहस्राणि दश चाष्टौ तथा स्मृतम्
अधिकान्यष्टपञ्चाशद् योजनानि तु वै पुनः विष्कम्भो मण्डलस्यैव तिर्यक्स तु विधीयते
अहस्तु चरते नाभेः सूर्यो वै मण्डलं क्रमात् कुलालचक्रपर्यन्तो यथा चन्द्रो रविस्तथा
दक्षिणे चक्रवत्सूर्यस् तथा शीघ्रं निवर्तते तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति
सूर्यो द्वादशभिः शीघ्रं मुहूर्तैर्दक्षिणायने त्रयोदशार्धमृक्षाणां मध्ये चरति मण्डलम्
मुहूर्तैस्तानि ऋक्षाणि नक्तमष्टादशैश्चरन् कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति
उदग्याने तथा सूर्यः सर्पते मन्दविक्रमः तस्माद्दीर्घेण कालेन भूमिं सो ऽल्पां प्रसर्पति
सूर्यो ऽष्टादशभिरह्नो मुहूर्तैरुदगायने त्रयोदशानां मध्ये तु ऋक्षाणां चरते रविः मुहूर्तैस्तानि ऋक्षाणि रात्रौ द्वादशभिश्चरन्
ततो मन्दतरं ताभ्यां चक्रं तु भ्रमते पुनः मृत्पिण्ड इव मध्यस्थो भ्रमते ऽसौ ध्रुवस्तथा