काष्ठागतस्य सूर्यस्य गतिस्तत्र निबोधत दक्षिणोपक्रमे सूर्यः क्षिप्तेषुरिव सर्पति
ज्योतिषां चक्रमादाय सततं परिगच्छति मध्यगश्चामरावत्यां यदा भवति भास्करः
वैवस्वते संयमने उद्यन्सूर्यः प्रदृश्यते सुषायामर्धरात्रस्तु विभावर्यास्तम् एति च
वैवस्वते संयमने मध्याह्ने तु रविर्यदा सुषायामथ वारुण्याम् उत्तिष्ठन्स तु दृश्यते
विभावर्यामर्धरात्रं माहेन्द्र्यामस्तमेव च सुषायामथ वारुण्यां मध्याह्ने तु रविर्यदा
विभावर्यां सोमपुर्याम् उत्तिष्ठति विभावसुः महेन्द्रस्यामरावत्याम् उद्गच्छति दिवाकरः
अर्धरात्रं संयमने वारुण्यामस्तमेति च स शीघ्रमेव पर्येति भानुरालातचक्रवत्
भ्रमन्वै भ्रममाणानि ऋक्षाणि चरते रविः एवं चतुर्षु पार्श्वेषु दक्षिणान्तेषु सर्पति
उदयास्तमये वासाव् उत्तिष्ठति पुनः पुनः पूर्वाह्णे चापराह्णे च द्वौ द्वौ देवालयौ तु सः
पतत्येकं तु मध्याह्ने भाभिरेव च रश्मिभिः उदितो वर्धमानाभिर् मध्याह्ने तपते रविः
अतः परं ह्रसन्तीभिर् गोभिरस्तं स गच्छति उदयास्तमयाभ्यां च स्मृते पूर्वापरे तु वै
यादृक्पुरस्तात्तपति यादृक्पृष्ठे तु पार्श्वयोः यत्रोदयस्तु दृश्येत तेषां स उदयः स्मृतः
प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते सर्वेषामुत्तरे मेरुर् लोकालोकस्य दक्षिणे
विदूरभावादर्कस्य भूमेरेषा गतस्य च श्रयन्ते रश्मयो यस्मात् तेन रात्रौ न दृश्यते
ऊर्ध्वं शतसहस्रांशुः स्थितस्तत्र प्रदृश्यते एवं पुष्करमध्ये तु यदा भवति भास्करः
त्रिंशद्भागं च मेदिन्या मुहूर्तेन स गच्छति योजनानां सहस्रस्य इमां संख्यां निबोधत
पूर्णं शतसहस्राणाम् एकत्रिंशच्च सा स्मृता पञ्चाशच्च सहस्राणि तथान्यान्यधिकानि च
मौहूर्तिकी गतिर्ह्येषा सूर्यस्य तु विधीयते एतेन क्रमयोगेण यदा काष्ठां तु दक्षिणाम्
परिगच्छति सूर्यो ऽसौ मासं काष्ठामुदग्दिनात् मध्येन पुष्करस्याथ भ्रमते दक्षिणायने
मानसोत्तरमेरोस्तु अन्तरं त्रिगुणं स्मृतम् सर्वतो दक्षिणस्यां तु काष्ठायां तन्निबोधत
नव कोट्यः प्रसंख्याता योजनैः परिमण्डलम् तथा शतसहस्राणि चत्वारिंशच्च पञ्च च
अहोरात्रात्पतंगस्य गतिरेषा विधीयते दक्षिणादिङ्निवृत्तो ऽसौ विषुवस्थो यदा रविः
क्षीरोदस्य समुद्रस्योत्तरतो ऽपि दिशं चरन् मण्डलं विषुवच्चापि योजनैस्तन्निबोधत
तिस्रः कोट्यस्तु सम्पूर्णा विषुवस्यापि मण्डलम् तथा शतसहस्राणि विंशत्येकाधिकानि तु
श्रावणे चोत्तरां काष्ठां चित्रभानुर्यदा भवेत् गोमेदस्य परद्वीपे उत्तरां च दिशं चरन्
उत्तरायाः प्रमाणं तु काष्ठाया मण्डलस्य तु दक्षिणोत्तरमध्यानि तानि विन्द्याद् यथाक्रमम्
स्थानं जरद्गवं मध्ये तथैरावतमुत्तमम् वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः
नागवीथ्युत्तरा वीथी ह्य् अजवीथिस् तु दक्षिणा उभे आषाढमूलं तु अजवीथ्यादयस् त्रयः
अभिजित्पूर्वतः स्वातिं नागवीथ्युत्तरास् त्रयः अश्विनी कृत्तिका याम्या नागवीथ्यस् त्रयः स्मृताः
रोहिण्यार्द्रा मृगशिरो नागवीथिर् इति स्मृता पुष्याश्लेषा पुनर्वस्वोर् वीथी चैरावती स्मृता