अस्य भारतवर्षस्य विष्कम्भात्तुल्यविस्तृतम् मण्डलं भास्करस्याथ योजनैस्तन्निबोधत
नवयोजनसाहस्रो विस्तारो मण्डलस्य तु विस्तारात्त्रिगुणश्चापि परिणाहो ऽत्र मण्डले
विष्कम्भान्मण्डलाच्चैव भास्कराद्द्विगुणः शशी अतः पृथिव्या वक्ष्यामि प्रमाणं योजनैः पुनः
सप्तद्वीपसमुद्राया विस्तारो मण्डलस्य तु इत्येतदिह संख्यातं पुराणे परिमाणतः
तद्वक्ष्यामि प्रसंख्याय साम्प्रतं चाभिमानिभिः अभिमानिनो ह्यतीता ये तुल्यास्ते साम्प्रतैस्त्विह
देवादेवैर् अतीतास्तु रूपैर्नामभिरेव च तस्माद्वै साम्प्रतैर्देवैर् वक्ष्यामि वसुधातलम्
दिव्यस्य संनिवेशो वै साम्प्रतैरेव कृत्स्नशः शतार्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता
तस्याश्चार्धप्रमाणं च मेरोश्चैवोत्तरोत्तरम् मेरोर्मध्ये प्रतिदिशं कोटिरेका तु सा स्मृता
तथा शतसहस्राणाम् एकोननवतिं पुनः पञ्चाशच्च सहस्राणि पृथिव्यर्धस्य विस्तरः
पृथिव्या विस्तरं कृत्यं योजनैस्तं निबोधत तिस्रः कोट्यस्तु विस्तारात् संख्यातास्तु चतुर्दिशम्
तथा शतसहस्राणाम् एकोनाशीतिर् उच्यते सप्तद्वीपसमुद्रायाः पृथिव्याः स तु विस्तरः
विस्तारं त्रिगुणं चैव पृथिव्यन्तरमण्डलम् गणितं योजनानां तु कोट्यस्त्वेकादश स्मृताः
तथा शतसहस्राणां सप्तत्रिंशाधिकास्तु ताः इत्येतद्वै प्रसंख्यातं पृथिव्यन्तरमण्डलम्
तारकासंनिवेशस्य दिवि यावत्तु मण्डलम् पर्याप्तसंनिवेशस्य भूमेस्तावत्तु मण्डलम्
पर्यासपरिमाणं च भूमेस्तुल्यं दिवः स्मृतम् मेरोः प्राच्यां दिशायां तु मानसोत्तरमूर्धनि
वस्त्वेकसारा माहेन्द्री पुण्या हेमपरिष्कृता दक्षिणेन पुनर्मेरोर् मानसस्य तु पृष्ठतः
वैवस्वतो निवसति यमः संयमने पुरे प्रतीच्यां तु पुनर्मेरोर् मानसस्य तु मूर्धनि
सुषा नाम पुरी रम्या वरुणस्यापि धीमतः दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्धनि
तुल्या महेन्द्रपुर्यापि सोमस्यापि विभावरी मानसोत्तरपृष्ठे तु लोकपालाश्चतुर्दिशम्
स्थिता धर्मव्यवस्थार्थं लोकसंरक्षणाय च लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने
काष्ठागतस्य सूर्यस्य गतिस्तत्र निबोधत दक्षिणोपक्रमे सूर्यः क्षिप्तेषुरिव सर्पति
ज्योतिषां चक्रमादाय सततं परिगच्छति मध्यगश्चामरावत्यां यदा भवति भास्करः
वैवस्वते संयमने उद्यन्सूर्यः प्रदृश्यते सुषायामर्धरात्रस्तु विभावर्यास्तम् एति च
वैवस्वते संयमने मध्याह्ने तु रविर्यदा सुषायामथ वारुण्याम् उत्तिष्ठन्स तु दृश्यते
विभावर्यामर्धरात्रं माहेन्द्र्यामस्तमेव च सुषायामथ वारुण्यां मध्याह्ने तु रविर्यदा
विभावर्यां सोमपुर्याम् उत्तिष्ठति विभावसुः महेन्द्रस्यामरावत्याम् उद्गच्छति दिवाकरः
अर्धरात्रं संयमने वारुण्यामस्तमेति च स शीघ्रमेव पर्येति भानुरालातचक्रवत्
भ्रमन्वै भ्रममाणानि ऋक्षाणि चरते रविः एवं चतुर्षु पार्श्वेषु दक्षिणान्तेषु सर्पति
उदयास्तमये वासाव् उत्तिष्ठति पुनः पुनः पूर्वाह्णे चापराह्णे च द्वौ द्वौ देवालयौ तु सः
पतत्येकं तु मध्याह्ने भाभिरेव च रश्मिभिः उदितो वर्धमानाभिर् मध्याह्ने तपते रविः