अग्नेर्दशगुणो वायुर् धारयञ्ज्योतिरास्थितः तिर्यक्च मण्डलो वायुर् भूतान्यावेष्ट्य धारयन्
दशाधिकं तथाकाशं वायोर्भूतान्यधारयत् भूतादिर्धारयन्व्योम तस्माद्दशगुणस्तु वै
भूतादितो दशगुणं महद्भूतान्यधारयत् महत्तत्त्वं ह्यनन्तेन अव्यक्तेन तु धार्यते
आधाराधेयभावेन विकारास्ते विकारिणाम् पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम्
परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् एवं परस्परोत्पन्ना धार्यन्ते च परस्परम्
यस्मात्प्रविष्टास्ते ऽन्योन्यं तस्मात्ते स्थिरतां गताः आसंस्ते ह्यविशेषाश्च विशेषा अन्यवेशनात्
पृथ्व्यादयस्तु वाय्वन्ताः परिच्छिन्नास्तु तत्र ते भूतेभ्यः परतस् तेभ्यो ह्य् अलोकः सर्वतः स्मृतः
तथा ह्यालोक आकाशे परिच्छिन्नानि सर्वशः पात्रे महति पात्राणि यथा ह्यन्तर्गतानि च
भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् तथा ह्यालोक आकाशे भेदास्त्वन्तर्गतागताः
कृतान्येतानि तत्त्वानि अन्योन्यस्याधिकानि च यावदेतानि तत्त्वानि तावदुत्पत्तिरुच्यते
जन्तूनामिह संस्कारो भूतेष्वन्तर्गतेषु वै प्रत्याख्यायेह भूतानि कार्योत्पत्तिर् न विद्यते
तस्मात्परिमिता भेदाः स्मृताः कार्यात्मकास्तु वै ते कारणात्मकाश्चैव स्युर्भेदा महदादयः
इत्येवं संनिवेशो ऽयं पृथ्व्याक्रान्तस्तु भागशः सप्तद्वीपसमुद्राणां याथातथ्येन वै मया
विस्तारान्मण्डलाच्चैव प्रसंख्यानेन चैव हि विश्वरूपं प्रधानस्य परिमाणैकदेशिनः
एतावत्संनिवेशस्तु मया सम्यक्प्रकाशितः एतावदेव श्रोतव्यं संनिवेशस्य पार्थिव
अत ऊर्ध्वं प्रवक्ष्यामि सूर्यचन्द्रमसोर्गतिम् सूर्याचन्द्रमसावेतौ भ्राजन्तौ यावदेव तु
सप्तद्वीपसमुद्राणां द्वीपानां भाति विस्तरः विस्तरार्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः
पर्यासपरिमाणं च चन्द्रादित्यौ प्रकाशतः पर्यासपारिमाण्यात्तु बुधैस्तुल्यं दिवः स्मृतम्
त्रींल्लोकान्प्रति सामान्यात् सूर्यो यात्यविलम्बतः अचिरात्तु प्रकाशेन अवनात्तु रविः स्मृतः
भूयो भूयः प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः महितत्वान्महच्छब्दो ह्य् अस्मिन्नर्थे निगद्यते
अस्य भारतवर्षस्य विष्कम्भात्तुल्यविस्तृतम् मण्डलं भास्करस्याथ योजनैस्तन्निबोधत
नवयोजनसाहस्रो विस्तारो मण्डलस्य तु विस्तारात्त्रिगुणश्चापि परिणाहो ऽत्र मण्डले
विष्कम्भान्मण्डलाच्चैव भास्कराद्द्विगुणः शशी अतः पृथिव्या वक्ष्यामि प्रमाणं योजनैः पुनः
सप्तद्वीपसमुद्राया विस्तारो मण्डलस्य तु इत्येतदिह संख्यातं पुराणे परिमाणतः
तद्वक्ष्यामि प्रसंख्याय साम्प्रतं चाभिमानिभिः अभिमानिनो ह्यतीता ये तुल्यास्ते साम्प्रतैस्त्विह
देवादेवैर् अतीतास्तु रूपैर्नामभिरेव च तस्माद्वै साम्प्रतैर्देवैर् वक्ष्यामि वसुधातलम्
दिव्यस्य संनिवेशो वै साम्प्रतैरेव कृत्स्नशः शतार्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता
तस्याश्चार्धप्रमाणं च मेरोश्चैवोत्तरोत्तरम् मेरोर्मध्ये प्रतिदिशं कोटिरेका तु सा स्मृता
तथा शतसहस्राणाम् एकोननवतिं पुनः पञ्चाशच्च सहस्राणि पृथिव्यर्धस्य विस्तरः
पृथिव्या विस्तरं कृत्यं योजनैस्तं निबोधत तिस्रः कोट्यस्तु विस्तारात् संख्यातास्तु चतुर्दिशम्