उदयतीन्दौ पूर्वे तु समुद्रः पूर्यते सदा प्रक्षीयमाने बहुले क्षीयते ऽस्तमिते च वै
आपूर्यमाणो ह्युदधिर् आत्मनैवाभिपूर्यते ततो वै क्षीयमाणे तु स्वात्मन्येव ह्य् अपां क्षयः
उदयात्पयसां योगात् पुष्पन्त्य् आपो यथा स्वयम् तथा स तु समुद्रो ऽपि वर्धते शशिनोदये
अन्यूनानतिरिक्तात्मा वर्धन्त्यापो ह्रसन्ति च उदये ऽस्तमये चेन्दोः पक्षयोः शुक्लकृष्णयोः
क्षयवृद्धी समुद्रस्य शशिवृद्धिक्षये तथा दशोत्तराणि पञ्चाहुर् अङ्गुलानां शतानि च
अपां वृद्धिः क्षयो दृष्टः समुद्राणां तु पर्वसु द्विरापत्वात् स्मृतो द्वीपो दधनाच्चोदधिः स्मृतः
निगीर्णत्वाच्च गिरयः पर्वबन्धाच्च पर्वताः शाकद्वीपे तु वै शाकः पर्वतस्तेन चोच्यते
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य तु क्रौञ्चद्वीपे गिरिः क्रौञ्चस् तस्य नाम्ना निगद्यते
शाल्मलिः शाल्मलद्वीपे पूज्यते स महाद्रुमः गोमेदके तु गोमेदः पर्वतस्तेन चोच्यते
न्यग्रोधः पुष्करद्वीपे पद्मवत्तेन स स्मृतः पूज्यते स महादेवैर् ब्रह्मांशो ऽव्यक्तसम्भवः
तस्मिन्स वसति ब्रह्मा साध्यैः सार्धं प्रजापतिः तत्र देवा उपासन्ते त्रयस्त्रिंशन्महर्षिभिः
स तत्र पूज्यते देवो देवैर्महर्षिसत्तमैः जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च
द्वीपेषु तेषु सर्वेषु प्रजानां क्रमशस्तु वै आर्जवाद्ब्रह्मचर्येण सत्येन च दमेन च
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः द्वीपेषु तेषु सर्वेषु यथोक्तं वर्षकेषु च
गोपायन्ते प्रजास्तत्र सर्वैः सहजपण्डितैः भोजनं चाप्रयत्नेन सदा स्वयमुपस्थितम्
षड्रसं तन्महावीर्यं तत्र ते भुञ्जते जनाः परेण पुष्करस्याथ आवृत्यावस्थितो महान्
स्वादूदकसमुद्रस्तु स समन्ताद् अवेष्टयत् स्वादूदकस्य परितः शैलस्तु परिमण्डलः
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते आलोकस्तत्र चार्वाक्च निरालोकस्ततः परम्
लोकविस्तारमात्रं तु पृथिव्यर्धं तु बाह्यतः प्रतिच्छिन्नं समन्तात्तु उदकेनावृतं महत्
भूमेर्दशगुणाश्चापः समन्तात्पालयन्ति गाम् अद्भ्यो दशगुणश्चाग्निः सर्वतो धारयत्य् अपः
अग्नेर्दशगुणो वायुर् धारयञ्ज्योतिरास्थितः तिर्यक्च मण्डलो वायुर् भूतान्यावेष्ट्य धारयन्
दशाधिकं तथाकाशं वायोर्भूतान्यधारयत् भूतादिर्धारयन्व्योम तस्माद्दशगुणस्तु वै
भूतादितो दशगुणं महद्भूतान्यधारयत् महत्तत्त्वं ह्यनन्तेन अव्यक्तेन तु धार्यते
आधाराधेयभावेन विकारास्ते विकारिणाम् पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम्
परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् एवं परस्परोत्पन्ना धार्यन्ते च परस्परम्
यस्मात्प्रविष्टास्ते ऽन्योन्यं तस्मात्ते स्थिरतां गताः आसंस्ते ह्यविशेषाश्च विशेषा अन्यवेशनात्
पृथ्व्यादयस्तु वाय्वन्ताः परिच्छिन्नास्तु तत्र ते भूतेभ्यः परतस् तेभ्यो ह्य् अलोकः सर्वतः स्मृतः
तथा ह्यालोक आकाशे परिच्छिन्नानि सर्वशः पात्रे महति पात्राणि यथा ह्यन्तर्गतानि च
भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् तथा ह्यालोक आकाशे भेदास्त्वन्तर्गतागताः
कृतान्येतानि तत्त्वानि अन्योन्यस्याधिकानि च यावदेतानि तत्त्वानि तावदुत्पत्तिरुच्यते