विपर्ययो न तेष्वस्ति एतत्स्वाभाविकं स्मृतम् आरोग्यं सुखबाहुल्यं मानसीं सिद्धिमास्थिताः
सुखमायुश्च रूपं च त्रिषु द्वीपेषु सर्वशः अधमोत्तमौ न तेष्वास्तां तुल्यास्ते वीर्यरूपतः
न तत्र वध्यवधकौ नेर्ष्यासूया भयं तथा न लोभो न च दम्भो वा न च द्वेषः परिग्रहः
सत्यानृते न तेष्वास्तां धर्माधर्मौ तथैव च वर्णाश्रमाणां वार्त्ता च पाशुपाल्यं वणिक्कृषिः
त्रयीविद्या दण्डनीतिः शुश्रूषा दण्ड एव च न तत्र वर्षं नद्यो वा शीतोष्णं च न विद्यते
उद्भिदान्युदकानि स्युर् गिरिप्रस्रवणानि च तुल्योत्तरकुरूणां तु कालस्तत्र तु सर्वदा
सर्वतः सुखकालो ऽसौ जराक्लेशविवर्जितः सर्गस्तु धातकीखण्डे महावीते तथैव च
एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः द्वीपस्यानन्तरो यस्तु समुद्रस्तत्समस्तु वै
एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम् अपां चैव समुद्रेकात् समुद्र इति संज्ञितः
ऋषद्वसन्त्यो वर्षेषु प्रजा यत्र चतुर्विधाः ऋषिरत्येव रमणे वर्षन्त्वेतेन तेषु वै
उदयतीन्दौ पूर्वे तु समुद्रः पूर्यते सदा प्रक्षीयमाने बहुले क्षीयते ऽस्तमिते च वै
आपूर्यमाणो ह्युदधिर् आत्मनैवाभिपूर्यते ततो वै क्षीयमाणे तु स्वात्मन्येव ह्य् अपां क्षयः
उदयात्पयसां योगात् पुष्पन्त्य् आपो यथा स्वयम् तथा स तु समुद्रो ऽपि वर्धते शशिनोदये
अन्यूनानतिरिक्तात्मा वर्धन्त्यापो ह्रसन्ति च उदये ऽस्तमये चेन्दोः पक्षयोः शुक्लकृष्णयोः
क्षयवृद्धी समुद्रस्य शशिवृद्धिक्षये तथा दशोत्तराणि पञ्चाहुर् अङ्गुलानां शतानि च
अपां वृद्धिः क्षयो दृष्टः समुद्राणां तु पर्वसु द्विरापत्वात् स्मृतो द्वीपो दधनाच्चोदधिः स्मृतः
निगीर्णत्वाच्च गिरयः पर्वबन्धाच्च पर्वताः शाकद्वीपे तु वै शाकः पर्वतस्तेन चोच्यते
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य तु क्रौञ्चद्वीपे गिरिः क्रौञ्चस् तस्य नाम्ना निगद्यते
शाल्मलिः शाल्मलद्वीपे पूज्यते स महाद्रुमः गोमेदके तु गोमेदः पर्वतस्तेन चोच्यते
न्यग्रोधः पुष्करद्वीपे पद्मवत्तेन स स्मृतः पूज्यते स महादेवैर् ब्रह्मांशो ऽव्यक्तसम्भवः
तस्मिन्स वसति ब्रह्मा साध्यैः सार्धं प्रजापतिः तत्र देवा उपासन्ते त्रयस्त्रिंशन्महर्षिभिः
स तत्र पूज्यते देवो देवैर्महर्षिसत्तमैः जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च
द्वीपेषु तेषु सर्वेषु प्रजानां क्रमशस्तु वै आर्जवाद्ब्रह्मचर्येण सत्येन च दमेन च
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः द्वीपेषु तेषु सर्वेषु यथोक्तं वर्षकेषु च
गोपायन्ते प्रजास्तत्र सर्वैः सहजपण्डितैः भोजनं चाप्रयत्नेन सदा स्वयमुपस्थितम्
षड्रसं तन्महावीर्यं तत्र ते भुञ्जते जनाः परेण पुष्करस्याथ आवृत्यावस्थितो महान्
स्वादूदकसमुद्रस्तु स समन्ताद् अवेष्टयत् स्वादूदकस्य परितः शैलस्तु परिमण्डलः
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते आलोकस्तत्र चार्वाक्च निरालोकस्ततः परम्
लोकविस्तारमात्रं तु पृथिव्यर्धं तु बाह्यतः प्रतिच्छिन्नं समन्तात्तु उदकेनावृतं महत्
भूमेर्दशगुणाश्चापः समन्तात्पालयन्ति गाम् अद्भ्यो दशगुणश्चाग्निः सर्वतो धारयत्य् अपः