परिमण्डलस्तु द्वीपस्य चक्रवत्परिवेष्टितः सुरोदेन समुद्रेण द्विगुणेन समन्वितः
गोमेदकं प्रवक्ष्यामि षष्ठं द्वीपं तपोधनाः सुरोदकसमुद्रस्तु गोमेदेन समावृतः
शाल्मलस्य तु विस्ताराद् द्विगुणस्तस्य विस्तरः तस्मिन्द्वीपे तु विज्ञेयौ पर्वतौ द्वौ समाहितौ
प्रथमः सुमना नाम जात्यञ्जनमयो गिरिः द्वितीयः कुमुदो नाम सर्वौषधिसमन्वितः
शातकौम्भमयः श्रीमान् विज्ञेयः सुमहाचितः समुद्रेक्षुरसोदेन वृतो गोमेदकश्च सः
षष्ठेन तु समुद्रेण सुरोदाद्द्विगुणेन च धातकीकुमुदश्चैव हव्यपुत्रौ सुविस्तृतौ
सौमनं प्रथमं वर्षं धातकीखण्डमुच्यते धातकिनः स्मृतं तद्वै प्रथमं प्रथमस्य तु
गोमेदं यत्स्मृतं वर्षं नाम्ना सर्वसुखं तु तत् कुमुदस्य द्वितीयस्य द्वितीयं कुमुदं ततः
एतौ द्वौ पर्वतौ वृत्तौ शेषौ सर्वसमुच्छ्रितौ पूर्वेण तस्य द्वीपस्य सुमनाः पर्वतः स्थितः
प्राक्पश्चिमायतैः पादैर् आसमुद्रादिति स्थितः पश्चार्धे कुमुदस्तस्य एवमेव स्थितस्तु वै
एतैः पर्वतपादैस्तु स देशो वै द्विधाकृतः दक्षिणार्धं तु द्वीपस्य धातकीखण्डमुच्यते
कुमुदं तूत्तरे तस्य द्वितीयं वर्षमुत्तमम् एतौ जनपदौ द्वौ तु गोमेदस्य तु विस्तृतौ
अतः परं प्रवक्ष्यामि सप्तमं द्वीपमुत्तमम् समुद्रेक्षुरसं चैव गोमेदाद्द्विगुणं हि सः
आवृत्य तिष्ठति द्वीपः पुष्करः पुष्करैर्वृतः पुष्करेण वृतः श्रीमांश् चित्रसानुमहागिरिः
कूटैश्चित्रैर्मणिमयैः शिलाजालसमुद्भवैः द्वीपस्यैव तु पूर्वार्धे चित्रसानुः स्थितो महान्
परिमण्डलसहस्राणि विस्तीर्णः सप्तविंशतिः ऊर्ध्वं स वै चतुर्विंशद्योजनानां महाबलः
द्वीपार्धस्य परिक्षिप्तः पश्चिमे मानसो गिरिः स्थितो वेलासमीपे तु पूर्वचन्द्र इवोदितः
योजनानां सहस्राणि सार्धं पञ्चाशदुच्छ्रितः तस्य पुत्रो महावीतः पश्चिमार्धस्य रक्षिता
पूर्वार्धे पर्वतस्यापि द्विधा देशस्तु स स्मृतः स्वादूदकेनोदधिना पुष्करः परिवारितः
विस्तारान्मण्डलाच्चैव गोमेदाद्द्विगुणेन तु त्रिंशद्वर्षसहस्राणि तेषु जीवन्ति मानवाः
विपर्ययो न तेष्वस्ति एतत्स्वाभाविकं स्मृतम् आरोग्यं सुखबाहुल्यं मानसीं सिद्धिमास्थिताः
सुखमायुश्च रूपं च त्रिषु द्वीपेषु सर्वशः अधमोत्तमौ न तेष्वास्तां तुल्यास्ते वीर्यरूपतः
न तत्र वध्यवधकौ नेर्ष्यासूया भयं तथा न लोभो न च दम्भो वा न च द्वेषः परिग्रहः
सत्यानृते न तेष्वास्तां धर्माधर्मौ तथैव च वर्णाश्रमाणां वार्त्ता च पाशुपाल्यं वणिक्कृषिः
त्रयीविद्या दण्डनीतिः शुश्रूषा दण्ड एव च न तत्र वर्षं नद्यो वा शीतोष्णं च न विद्यते
उद्भिदान्युदकानि स्युर् गिरिप्रस्रवणानि च तुल्योत्तरकुरूणां तु कालस्तत्र तु सर्वदा
सर्वतः सुखकालो ऽसौ जराक्लेशविवर्जितः सर्गस्तु धातकीखण्डे महावीते तथैव च
एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः द्वीपस्यानन्तरो यस्तु समुद्रस्तत्समस्तु वै
एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम् अपां चैव समुद्रेकात् समुद्र इति संज्ञितः
ऋषद्वसन्त्यो वर्षेषु प्रजा यत्र चतुर्विधाः ऋषिरत्येव रमणे वर्षन्त्वेतेन तेषु वै