वर्षाणि तस्य वक्ष्यामि नामतस्तु निबोधत क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः
मनोनुगात्परे चोष्णास् तृतीयो ऽपि स उच्यते उष्णात्परे पावनकः पावनादन्धकारकः
अन्धकारकदेशात्तु मुनिदेशस्तथा परः मुनिदेशात्परे चापि प्रोच्यते दुन्दुभिस्वनः
सिद्धचारणसंकीर्णो गौरप्रायः शुचिर्जनः श्रुतास्तत्रैव नद्यस्तु प्रतिवर्षं गताः शुभाः
गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा ख्याती च पुण्डरीका च गङ्गा सप्तविधा स्मृता
तासां सहस्रशश्चान्या नद्यः पार्श्वसमीपगाः अभिगच्छन्ति ता नद्यो बहुलाश्च बहूदकाः
तेषां निसर्गो देशानाम् आनुपूर्व्येण सर्वशः न शक्यो विस्तराद्वक्तुम् अपि वर्षशतैरपि
सर्गो यश्च प्रजानां तु संहारो यश्च तेषु वै अत ऊर्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत
शाल्मलो द्विगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात् परिवार्य समुद्रं तु दधिमण्डोदकं स्थितः
तत्र पुण्या जनपदाश् चिराच्च म्रियते जनः कुत एव तु दुर्भिक्षं क्षमातेजोयुता हि ते
प्रथमः सूर्यसंकाशः सुमना नाम पर्वतः पीतस्तु मध्यमश्चासीत् ततः कुम्भमयो गिरिः
नाम्ना सर्वसुखो नाम दिव्यौषधिसमन्वितः तृतीयश्चैव सौवर्णो भृङ्गपत्त्रनिभो गिरिः
सुमहान्रोहितो नाम दिव्यो गिरिवरो हि सः सुमनाः कुशलो देशः सुखोदर्कः सुखोदयः
रोहितो यस्तृतीयस्तु रोहिणो नाम विश्रुतः तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः
प्रजापतिमुपादाय प्रसन्नो विदधत्स्वयम् न तत्र मेघा वर्षन्ति शीतोष्णं च न तद्विधम्
वर्णाश्रमाणां वार्त्ता वा त्रिषु द्वीपेषु विद्यते न ग्रहो न च चन्द्रो ऽस्ति ईर्ष्यासूया भयं तथा
उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च भोजनं षड्रसं तत्र तेषां स्वयमुपस्थितम्
अधमोत्तमं न तेष्वस्ति न लोभो न परिग्रहः आरोग्यबलवन्तश्च एकान्तसुखिनो नराः
त्रिंशद्वर्षसहस्राणि मानसीं सिद्धिमास्थिताः सुखमायुश्च रूपं च धर्मैश्वर्यं तथैव च
शाल्मलान्तेषु विज्ञेयं द्वीपेषु त्रिषु सर्वतः व्याख्यातः शाल्मलान्तानां द्वीपानां तु विधिः शुभः
परिमण्डलस्तु द्वीपस्य चक्रवत्परिवेष्टितः सुरोदेन समुद्रेण द्विगुणेन समन्वितः
गोमेदकं प्रवक्ष्यामि षष्ठं द्वीपं तपोधनाः सुरोदकसमुद्रस्तु गोमेदेन समावृतः
शाल्मलस्य तु विस्ताराद् द्विगुणस्तस्य विस्तरः तस्मिन्द्वीपे तु विज्ञेयौ पर्वतौ द्वौ समाहितौ
प्रथमः सुमना नाम जात्यञ्जनमयो गिरिः द्वितीयः कुमुदो नाम सर्वौषधिसमन्वितः
शातकौम्भमयः श्रीमान् विज्ञेयः सुमहाचितः समुद्रेक्षुरसोदेन वृतो गोमेदकश्च सः
षष्ठेन तु समुद्रेण सुरोदाद्द्विगुणेन च धातकीकुमुदश्चैव हव्यपुत्रौ सुविस्तृतौ
सौमनं प्रथमं वर्षं धातकीखण्डमुच्यते धातकिनः स्मृतं तद्वै प्रथमं प्रथमस्य तु
गोमेदं यत्स्मृतं वर्षं नाम्ना सर्वसुखं तु तत् कुमुदस्य द्वितीयस्य द्वितीयं कुमुदं ततः
एतौ द्वौ पर्वतौ वृत्तौ शेषौ सर्वसमुच्छ्रितौ पूर्वेण तस्य द्वीपस्य सुमनाः पर्वतः स्थितः
प्राक्पश्चिमायतैः पादैर् आसमुद्रादिति स्थितः पश्चार्धे कुमुदस्तस्य एवमेव स्थितस्तु वै