इत्येते पर्वताः सप्त कुशद्वीपे प्रभाषिताः तेषां वर्षाणि वक्ष्यामि सप्तैव तु विभागशः
कुमुदस्य स्मृतः श्वेत उन्नतश्चेव स स्मृतः उन्नतस्य तु विज्ञेयं वर्षं लोहितसंज्ञकम्
वेणुमण्डलकं चैव तथैव परिकीर्तितम् बलाहकस्य जीमूतः स्वैरथाकारमित्यपि
द्रोणस्य हरिकं नाम लवणं च पुनः स्मृतम् कङ्कस्यापि ककुन् नाम धृतिमच्चैव तत्स्मृतम्
महिषं महिषस्यापि पुनश्चापि प्रभाकरम् ककुद्मिनस्तु तद्वर्षं कपिलं नाम विश्रुतम्
एतान्यपि विशिष्टानि सप्त सप्त पृथक्पृथक् वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत
तत्रापि नद्यः सप्तैव प्रतिवर्षं हि ताः स्मृताः द्विनामवत्यस्ताः सर्वाः सर्वाः पुण्यजलाः स्मृताः
धूतपापा नदी नाम योनिश्चैव पुनः स्मृता सीता द्वितीया विज्ञेया सा चैव हि निशा स्मृता
पवित्रा तृतीया विज्ञेया वितृष्णापि च या पुनः चतुर्थी ह्लादिनीत्युक्ता चन्द्रभा इति च स्मृता
विद्युच्च पञ्चमी प्रोक्ता शुक्ला चैव विभाव्यते पुण्ड्रा षष्ठी तु विज्ञेया पुनश्चैव विभावरी
महती सप्तमी प्रोक्ता पुनश्चैषा धृतिः स्मृता अन्यास्ताभ्यो ऽपि संजाताः शतशो ऽथ सहस्रशः
अभिगच्छन्ति ता नद्यो यतो वर्षति वासवः इत्येष संनिवेशो वः कुशद्वीपस्य वर्णितः
शाकद्वीपेन विस्तारः प्रोक्तस्तस्य सनातनः कुशद्वीपः समुद्रेण घृतमण्डोदकेन च
सर्वतः सुमहान्द्वीपश् चन्द्रवत्परिवेष्टितः विस्तारान्मण्डलाच्चैव क्षीरोदाद्द्विगुणो मतः
ततः परं प्रवक्ष्यामि क्रौञ्चद्वीपं यथा तथा कुशद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः
घृतोदकः समुद्रो वै क्रौञ्चद्वीपेन संवृतः चक्रनेमिप्रमाणेन वृतो वृत्तेन सर्वशः
तस्मिन्द्वीपे नगाः श्रेष्ठा देवनो गिरिरुच्यते देवनात्परतश्चापि गोविन्दो नाम पर्वतः
गोविन्दात्परतश्चापि क्रौञ्चस्तु प्रथमो गिरिः क्रौञ्चात्परे पावनकः पावनादन्धकारकः
अन्धकारात्परे चापि देवावृन् नाम पर्वतः देवावृतः परेणापि पुण्डरीको महान्गिरिः
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः परस्परस्य द्विगुणो विष्कम्भो वर्षपर्वतः
वर्षाणि तस्य वक्ष्यामि नामतस्तु निबोधत क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः
मनोनुगात्परे चोष्णास् तृतीयो ऽपि स उच्यते उष्णात्परे पावनकः पावनादन्धकारकः
अन्धकारकदेशात्तु मुनिदेशस्तथा परः मुनिदेशात्परे चापि प्रोच्यते दुन्दुभिस्वनः
सिद्धचारणसंकीर्णो गौरप्रायः शुचिर्जनः श्रुतास्तत्रैव नद्यस्तु प्रतिवर्षं गताः शुभाः
गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा ख्याती च पुण्डरीका च गङ्गा सप्तविधा स्मृता
तासां सहस्रशश्चान्या नद्यः पार्श्वसमीपगाः अभिगच्छन्ति ता नद्यो बहुलाश्च बहूदकाः
तेषां निसर्गो देशानाम् आनुपूर्व्येण सर्वशः न शक्यो विस्तराद्वक्तुम् अपि वर्षशतैरपि
सर्गो यश्च प्रजानां तु संहारो यश्च तेषु वै अत ऊर्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत
शाल्मलो द्विगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात् परिवार्य समुद्रं तु दधिमण्डोदकं स्थितः
तत्र पुण्या जनपदाश् चिराच्च म्रियते जनः कुत एव तु दुर्भिक्षं क्षमातेजोयुता हि ते