एताः सप्त महाभागाः प्रतिवर्षं शिवोदकाः भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम्
अभिगच्छन्ति ताश्चान्या नदा नद्यः सरांसि च बहूदकपरिस्रावा यतो वर्षति वासवः
तासां तु नामधेयानि परिमाणं तथैव च न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते एते शान्तभयाः प्रोक्ताः प्रमोदा ये च वै शिवाः
आनन्दाश्च सुखाश्चैव क्षेमकाश्च नवैः सह वर्णाश्रमाचारयुता देशास्ते सप्त विश्रुताः
आरोग्या बलिनश्चैव सर्वे मरणवर्जिताः अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः
न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् त्रेतायुगसमः कालस् तथा तत्र प्रवर्तते
शाकद्वीपादिषु ज्ञेयं पञ्चस्वेतेषु सर्वशः देशस्य तु विचारेण कालः स्वाभाविकः स्मृतः
न तेषु संकरः कश्चिद् वर्णाश्रमकृतः क्वचित् धर्मस्य चाव्यभीचाराद् एकान्तसुखिनः प्रजाः
न तेषु माया लोभो वा ईर्ष्यासूया भयं कुतः विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम्
कालो नैव च तेष्वस्ति न दण्डो न च दाण्डिकः स्वधर्मेण च धर्मज्ञास् ते रक्षन्ति परस्परम्
परिमण्डलस्तु सुमहान् द्वीपो वै कुशसंज्ञकः नदीजलैः परिवृतः पर्वतश्चाभ्रसंनिभैः
सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः अन्यैश्च विविधाकारै रम्यैर्जनपदैस्तथा
वृक्षैः पुष्पफलोपेतैः सर्वतो धनधान्यवान् नित्यं पुष्पफलोपेतः सर्वरत्नसमावृतः
आवृतः पशुभिः सर्वैर् ग्राम्यारण्यैश्च सर्वशः आनुपूर्व्यात्समासेन कुशद्वीपं निबोधत
अथ तृतीयं वक्ष्यामि कुशद्वीपं च कृत्स्नशः कुशद्वीपेन क्षीरोदः सर्वतः परिवारितः
शाकद्वीपस्य विस्ताराद् द्विगुणेन समन्वितः तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः
रत्नाकरास्तथा नद्यस् तेषां नामानि मे शृणु द्विनामानश्च ते सर्वे शाकद्वीपे यथा तथा
प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः विद्रुमोच्चय इत्युक्तः स एव च महीधरः
सर्वधातुमयैः शृङ्गैः शिलाजालसमन्वितैः द्वितीयः पर्वतस्तत्र उन्नतो नाम विश्रुतः
हेमपर्वत इत्युक्तः स एव च महीधरः हरितालमयैः शृङ्गैर् द्वीपमावृत्य सर्वशः
बलाहकस्तृतीयस्तु जात्यञ्जनमयो गिरिः द्युतिमान्नामतः प्रोक्तः स एव च महीधरः
चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महागिरौ विशल्यकरणी चैव मृतसंजीवनी तथा
पुष्पवान्नाम सैवोक्तः पर्वतः सुमहाचितः कङ्कस्तु पञ्चमस्तेषां पर्वतो नाम सारवान्
कुशेशय इति प्रोक्तः पुनः स पृथिवीधरः दिव्यपुष्पफलोपेतो दिव्यविरुत्समन्वितः
षष्ठस्तु पर्वतस्तत्र महिषो मेघसंनिभः स एव तु पुनः प्रोक्तो हरिरित्यभिविश्रुतः
तस्मिन्सो ऽग्निर्निवसति महिषो नाम यो ऽप्सुजः सप्तमः पर्वतस्तत्र ककुद्मान्स हि भाषते
मन्दरः सैव विज्ञेयः सर्वधातुमयः शुभः मन्द इत्येष यो धातुर् अपामर्थे प्रकाशकः
अपां विदारणाच्चैव मन्दरः स निगद्यते तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः
प्रजापतिमुपादाय प्रजाभ्यो विदधत्स्वयम् तेषामन्तरविष्कम्भो द्विगुणः समुदाहृतः