सोमकस्य शुभं वर्षं विज्ञेयं कुसुमोत्करम् तदेवासितम् इत्युक्तं वर्षं सोमकसंज्ञितम्
आम्बिकेयस्य मैनाकं क्षेमकं चैव तत्कृतम् केसरः पर्वतस्यापि महाद्रुममिति स्मृतम् तदेव धवमित्युक्तं वर्षं विभ्राजसंज्ञितम्
द्वीपस्य परिणाहं च ह्रस्वदीर्घत्वमेव च जम्बूद्वीपेन संख्यातं तस्य मध्ये वनस्पतिः
शाको नाम महावृक्षः प्रजास्तस्य महानुगाः एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः
विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह तत्र पुण्या जनपदाश् चातुर्वर्ण्यसमन्विताः
तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः द्विनाम्ना चैव ताः सर्वा गङ्गाः सप्तविधाः स्मृताः
प्रथमा सुकुमारीति गङ्गा शिवजला शुभा मुनितप्ता च नाम्नैषा नदी सम्परिकीर्तिता
सुकुमारी तपःसिद्धा द्वितीया नामतः सती नन्दा च पावनी चैव तृतीया परिकीर्तिता
शिबिका च चतुर्थी स्याद् द्विविधा च पुनः स्मृता इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः कुहूः
वेणुका चामृता चैव षष्ठी सम्परिकीर्तिता सुकृता च गभस्ती च सप्तमी परिकीर्तिता
एताः सप्त महाभागाः प्रतिवर्षं शिवोदकाः भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम्
अभिगच्छन्ति ताश्चान्या नदा नद्यः सरांसि च बहूदकपरिस्रावा यतो वर्षति वासवः
तासां तु नामधेयानि परिमाणं तथैव च न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते एते शान्तभयाः प्रोक्ताः प्रमोदा ये च वै शिवाः
आनन्दाश्च सुखाश्चैव क्षेमकाश्च नवैः सह वर्णाश्रमाचारयुता देशास्ते सप्त विश्रुताः
आरोग्या बलिनश्चैव सर्वे मरणवर्जिताः अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः
न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् त्रेतायुगसमः कालस् तथा तत्र प्रवर्तते
शाकद्वीपादिषु ज्ञेयं पञ्चस्वेतेषु सर्वशः देशस्य तु विचारेण कालः स्वाभाविकः स्मृतः
न तेषु संकरः कश्चिद् वर्णाश्रमकृतः क्वचित् धर्मस्य चाव्यभीचाराद् एकान्तसुखिनः प्रजाः
न तेषु माया लोभो वा ईर्ष्यासूया भयं कुतः विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम्
कालो नैव च तेष्वस्ति न दण्डो न च दाण्डिकः स्वधर्मेण च धर्मज्ञास् ते रक्षन्ति परस्परम्
परिमण्डलस्तु सुमहान् द्वीपो वै कुशसंज्ञकः नदीजलैः परिवृतः पर्वतश्चाभ्रसंनिभैः
सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः अन्यैश्च विविधाकारै रम्यैर्जनपदैस्तथा
वृक्षैः पुष्पफलोपेतैः सर्वतो धनधान्यवान् नित्यं पुष्पफलोपेतः सर्वरत्नसमावृतः
आवृतः पशुभिः सर्वैर् ग्राम्यारण्यैश्च सर्वशः आनुपूर्व्यात्समासेन कुशद्वीपं निबोधत
अथ तृतीयं वक्ष्यामि कुशद्वीपं च कृत्स्नशः कुशद्वीपेन क्षीरोदः सर्वतः परिवारितः
शाकद्वीपस्य विस्ताराद् द्विगुणेन समन्वितः तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः
रत्नाकरास्तथा नद्यस् तेषां नामानि मे शृणु द्विनामानश्च ते सर्वे शाकद्वीपे यथा तथा
प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः विद्रुमोच्चय इत्युक्तः स एव च महीधरः
सर्वधातुमयैः शृङ्गैः शिलाजालसमन्वितैः द्वितीयः पर्वतस्तत्र उन्नतो नाम विश्रुतः