आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति चक्रमैनाकयोर्मध्ये दिवि सन् दक्षिणापथे
तत्र संवर्तको नाम सो ऽग्निः पिबति तज्जलम् अग्निः समुद्रवासस्तु और्वो ऽसौ वडवामुखः
इत्येते पर्वताविष्टाश् चत्वारो लवणोदधिम् छिद्यमानेषु पक्षेषु पुरा इन्द्रस्य वै भयात्
तेषां तु दृश्यते चन्द्रे शुक्ले कृष्णे समाप्लुतिः ते भारतस्य वर्षस्य भेदा येन प्रकीर्तिताः
इहोदितस्य दृश्यन्ते अन्ये त्वन्यत्र चोदिताः उत्तरोत्तरमेतेषां वर्षम् उद्रिच्यते गुणैः
आरोग्यायुःप्रमाणाभ्यां धर्मतः कामतो ऽर्थतः समन्वितानि भूतानि तेषु वर्षेषु भागशः
वसन्ति नानाजातीनि तेषु सर्वेषु तानि वै इत्येतद्धारयद्विश्वं पृथ्वी जगदिदं स्थिता
शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम् कथ्यमानं निबोध त्वं शाकं द्वीपं द्विजोत्तमाः
जम्बूद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः विस्तारात्त्रिगुणश्चापि परिणाहः समन्ततः
तेनावृतः समुद्रो ऽयं द्वीपेन लवणोदधिः तत्र पुण्या जनपदाश् चिराच्च म्रियते जनः
कुत एव च दुर्भिक्षं क्षमातेजोयुतेष्विह तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः
शाकद्वीपादिषु त्वेषु सप्त सप्त नगास् त्रिषु ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः
रत्नाकरादिनामानः सानुमन्तो महाचिताः समोदिताः प्रतिदिशं द्वीपविस्तारमानतः
उभयत्रावगाढौ च लवणक्षीरसागरौ शाकद्वीपे तु वक्ष्यामि सप्त दिव्यान्महाचलान्
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते प्रागायतः स सौवर्ण उदयो नाम पर्वतः
तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यपयान्ति च तस्यापरेण सुमहाञ् जलधारो महागिरिः
स वै चन्द्रः समाख्यातः सर्वौषधिसमन्वितः तस्मान्नित्यमुपादत्ते वासवः परमं जलम्
नारदो नाम चैवोक्तो दुर्गशैलो महाचितः तत्राचलौ समुत्पन्नौ पूर्वं नारदपर्वतौ
तस्यापरेण सुमहाञ् श्यामो नाम महागिरिः यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल
स एव दुन्दुभिर्नाम श्यामपर्वतसंनिभः शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः
रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत् तस्यापरेण रजतो महानस्तो गिरिः स्मृतः
स वै सोमक इत्युक्तो देवैर्यत्रामृतं पुरा संभृतं च हृतं चैव मातुरर्थे गरुत्मता
तस्यापरे चाम्बिकेयः सुमनाश्चैव स स्मृतः हिरण्याक्षो वराहेण तस्मिञ्छैले निषूदितः
आम्बिकेयात्परो रम्यः सर्वौषधिनिषेवितः विभ्राजस्तु समाख्यातः स्फाटिकस्तु महान्गिरिः
यस्माद्विभ्राजते वह्निर् विभ्राजस्तेन स स्मृतः सैवेह केशवेत्युक्तो यतो वायुः प्रवाति च
तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजोत्तमाः शृणुध्वं नामतस्तानि यथावदनुपूर्वशः
द्विनामान्येव वर्षाणि यथैव गिरयस्तथा उदयस्योदयं वर्षं जलधारेति विश्रुतम्
नाम्ना गतभयं नाम वर्षं तत्प्रथमं स्मृतम् द्वितीयं जलधारस्य सुकुमारमिति स्मृतम्
तदेव शैशिरं नाम वर्षं तत्परिकीर्तितम् नारदस्य च कौमारं तदेव च सुखोदयम्
श्यामपर्वतवर्षं तद् अनीचकम् इति स्मृतम् आनन्दकमिति प्रोक्तं तदेव मुनिभिः शुभम्